View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.54 अयोध्याकांड - चतुःपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुःपंचाशस्सर्गः ।

ते तु तस्मिन्महावृक्षे उषित्वा रजनीं शिवाम् ।
विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे ॥ 1 ॥

यत्र भागीरथीं गंगां यमुनाभिप्रवर्तते ।
जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ 2 ॥

ते भूमिभागान्विविधान् देशांश्चापि मनोरमान् ।
अदृष्टपूर्वान् पश्यंतस्तत्र तत्र यशश्विनः ॥ 3 ॥

यथा क्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान् ।
निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ 4 ॥

प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् ।
अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः ॥ 5 ॥

नूनं प्राप्ताः स्म संभेदं गंगायमुनयोर्वयम् ।
तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः ॥ 6 ॥

दारूणि परिभिन्नानि वनजैरुपजीविभिः ।
भरद्वाजाश्रमे चैते दृश्यंते विविधा द्रुमाः ॥ 7 ॥

धन्विनौ तौ सुखं गत्वा लंबमाने दिवाकरे ।
गंगायमुनयोस्संधौ प्रापतुर्निलयं मुनेः ॥ 8 ॥

रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः ।
गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥ 9 ॥

ततस्त्वाश्रमासाद्य मुनेर्दर्शनकांक्षिणौ ।
सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ 10 ॥

स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् ।
संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ 11 ॥

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृतांजलिः ।
रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥ 12 ॥

न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः ।
पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ॥ 13 ॥

भार्या ममेयं वैदेही कल्याणी जनकात्मजा ।
मां चानुयाता विजनं तपोवनमनिंदिता ॥ 14 ॥

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुज प्रियः ।
अयमन्वगमद्भ्राता वनमेव दृढव्रतः ॥ 15 ॥

पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् ।
धर्ममेव चरिष्याम स्तत्र मूलफलाशनाः ॥ 16 ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ 17 ॥

नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
तेभ्यो ददौ तप्ततपा वासं चैवाभ्यकल्पयत् ॥ 18 ॥

मृगपक्षिभिरासीनो मुनिभिश्च समंततः ।
राममागतमभ्यर्च्य स्वागतेनाहतं मुनिः ॥ 19 ॥

प्रतिगृह्य च तामर्चामुपविष्टं स राघवम् ।
भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ 20 ॥

चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् ।
श्रुतं तव मया चेदं विवासनमकारणम् ॥ 21 ॥

अवकाशो विविक्तोऽयं महानद्योस्समागमे ।
पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ 22 ॥

एवमुक्तस्तु वचनं भरद्वाजेन राघवः ।
प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ 23 ॥

भगवन्नित आसन्नः पौरजानपदो जनः ।
सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ॥ 24 ॥

आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।
अनेन कारणेनाहमिह वासं न रोचये ॥ 25 ॥

एकांते पश्य भगवन्नाश्रमस्थानमुत्तमम् ।
रमेत यत्र वैदेही सुखार्हा जनकात्मजा ॥ 26 ॥

एतछ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।
राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ॥ 27 ॥

दशक्रोश इतस्तात गिरिर्यत्रनिवत्स्यसि ।
महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ॥ 28 ॥

गोलांगूलानुचरितो वानरर्क्षनिषेवितः ।
चित्रकूट इति ख्यातो गंधमादनसन्निभः ॥ 29 ॥

यावता चित्रकूटस्य नरशृंगान्यवेक्षते ।
कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ 30 ॥

ऋषयस्तत्र बहवो विहृत्य शरदां शतम् ।
तपसा दिवमारूढाः कपालशिरसा सह ॥ 31 ॥

प्रविविक्तमहं मन्ये तं वासं भवतस्सुखम् ।
इह वा वनवासाय वस राम मया सह ॥ 32 ॥

स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।
सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ 33 ॥

तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ।
प्रपन्ना रजनी पुण्याः चित्राः कथयतः कथाः ॥ 34 ॥

सीतातृतीयः काकुत्स्थः परिश्रांतः सुखोचितः ।
भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ॥ 35 ॥

प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।
उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् ॥ 36 ॥

शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे ।
उषिताः स्मेह वसतिमनुजानातु नो भवान् ॥ 37 ॥

रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् ।
मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥ 38 ॥

वासमौपयिकं मन्ये तव राम महाबल नानानगगणोपेतः किन्नरोरगसेवितः ।
मयूरनादाभिरुतो गजराजनिषेवितः ॥ 39 ॥

गम्यतां भवता शैल श्चित्रकूटः स विश्रुतः ।
पुण्यश्च रमणीयश्च बहुमूलफलायुतः ॥ 40 ॥

तत्र कुंजरयूथानि मृगयूथानि चाभितः ।
विचरंति वनांतेस्मिन् तानि द्रक्ष्यसि राघव ॥ 41 ॥

सरित्प्रस्रवणप्रस्थान् दरीकंदरनिर्झरान् ।
चरतः सीतया सार्धं नंदिष्यति मनस्तव ॥ 42 ॥

प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् ।
मृगैश्च मत्तैर्बहुभिश्च कुंजरैः सुरम्यमासाद्य समावसाश्रमम् ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुःपंचाशस्सर्गः ॥




Browse Related Categories: