View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.25 किष्किंधाकांड - पंचविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचविंशस्सर्गः ।

सुग्रीवं चैव तारां च सांगदं सहलक्ष्मणः ।
समानशोकः काकुत्स्थ स्सांत्वयन्निदमब्रवीत् ॥ 1 ॥

न शोकपरितापेन श्रेयसा युज्यते मृतः ।
यदत्रानंतरं कार्यं तत्समाधातुमर्हथ ॥ 2 ॥

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।
न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् ॥ 3 ॥

नियतिः कारणं लोके नियतिः कर्मसाधनम् ।
नियतिस्सर्वभूतानां नियोगेष्विह कारणम् ॥ 4 ॥

न कर्ता कस्यचित्कश्चिन्नियोगे चापिनेश्वरः ।
स्वभावे वर्तते लोकस्तस्य कालः परायणम् ॥ 5 ॥

न कालः कालमत्येति न कालः परिहीयते ।
स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ 6 ॥

न कालस्यास्ति बंधुत्वं न हेतुर्न पराक्रमः ।
न मित्रज्ञातिसंबंधः कारणं नात्मनो वशः ॥ 7 ॥

किं तु कालपरीणामो द्रष्टव्यस्साधु पश्यता ।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥ 8 ॥

इतस्स्वां प्रकृतिं वाली गतःप्राप्तः क्रियाफलम् ।
धर्मार्थकाम संयोगैः पवित्रं प्लवगेश्वरः ॥ 9 ॥

स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना ।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ 10 ॥

एषा वै नियतिश्शेष्ठा यां गतो हरियूथपः ।
तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ 11 ॥

वचनांते तु रामस्य लक्ष्मणः परवीरहा ।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ 12 ॥

कुरु त्वमस्य सुग्रीव प्रेतकार्यमनंतरम् ।
तारांगदाभ्यां सहितो वालिनो दहनं प्रति ॥ 13 ॥

समाज्ञापय काष्ठानि शुष्कानि च बहूनि च ।
चंदनादीनि दिव्यानि वालिसंस्कारकारणात् ॥ 14 ॥

समाश्वासय चैनं त्वमंगदं दीनचेतसम् ।
मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥ 15 ॥

अंगदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ।
घृतं तैलमथो गंधान्यच्चात्र समनंतरम् ॥ 16 ॥

त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात् ।
त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ॥ 17 ॥

सज्जीभवंतु प्लवगाश्शिबिकावाहनोचिताः ।
समर्था बलिनश्चैव निर्हरिष्यंति वालिनम् ॥ 18 ॥

एवमुक्त्वा तु सुग्रीवं सुमित्रानंदवर्धनः ।
तसौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ 19 ॥

लक्ष्मणस्य वचश्श्रुत्वा तारस्संभ्रांतमानसः ।
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ॥ 20 ॥

आदाय शिबिकां तारस्स तु पर्यापतत्पुनः ।
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः ॥ 21 ॥

दिव्यां भद्रासनयुतां शिबिकां स्यंदनोपमाम् ।
पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् ॥ 22 ॥

आचितां चित्रपत्तीभि स्सुनिविष्टां समंततः ।
विमानमिव सिद्धानां जालवातायनान्विताम् ॥ 23 ॥

सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ।
दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् ॥ 24 ॥

वराभरणहारैश्च चित्रमाल्योपशोभिताम् ।
गुहागहनसंछन्नां रक्तचंदनभूषिताम् ॥ 25 ॥

पुष्पौघैस्समभिच्छन्नां पद्ममालाभिरेव च ।
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ 26 ॥

ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् ।
क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ॥ 27 ॥

ततो वालिनमुद्यम्य सुग्रीवश्शिबिकां तदा ।
आरोपयत विक्रोशन्नंगदेन सहैव तु ॥ 28 ॥

आरोप्य शिबिकां चैव वालिनं गतजीवितम् ।
अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ 29 ॥

आज्ञापयत्तदा राजा सुग्रीव प्लवगेश्वरः ।
और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः ॥ 30 ॥

विश्राणयंतो रत्नानि विविधानि बहून्यपि ।
अग्रतः प्लवगा यांतु शिबिका समनंतरम् ॥ 31 ॥

राज्ञामृद्दिविशेषा हि दृश्यंते भुवि यादृशाः ।
तादृशैरिह कुर्वंतु वानरा भर्तृसत्क्रियाम् ॥ 32 ॥

तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम् ।
अंगदं परिगृह्याऽशु तारप्रभृतयस्तदा ॥ 33 ॥

क्रोशंतः प्रययुस्सर्वे वानरा हतबांधवाः ।
ततः प्रणिहिताः सर्वा वानर्योस्य वशानुगाः ॥ 34 ॥

चुक्रुशु र्वीर वीरेति भूयः क्रोशंति ताः स्त्रीयः ।
ताराप्रभृतयस्सर्वा वानर्यो हरियूथपाः ।
अनुजग्मुर्हि भर्तारं क्रोशंत्यः करुणस्वनाः ॥ 35 ॥

तासां रुदितशब्देन वानरीणां वनांतरे ।
वनानि गिरयश्चैव विक्रोशंतीव सर्वतः ॥ 36 ॥

पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ॥ 37 ॥

चितां चक्रुस्सुबहवो वानराश्शोककर्शिताः ।
अवरोप्य ततस्स्कंधाच्छिबिकां वाहनोचिताः ।
तस्थुरेकांतमाश्रित्य सर्वे शोकसमन्विताः ॥ 38 ॥

ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् ॥ 39 ॥

आरोप्यांके शिरस्तस्य विललाप सुदुःखिता ।
हा वानर महाराज हा नाथ मम वत्सल ॥ 40 ॥

हा महार्ह महाबाहो हा मम प्रिय पश्य माम् ।
जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥ 41 ॥

प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद आस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ॥ 42 ॥

एष त्वां रामरूपेण कालः कर्षति वानर ।
येन स्म विधवास्सर्वाः कृता एकेषुणा वने ॥ 43 ॥

इमास्तास्तव राजेंद्र वानर्योवल्लभास्सदा ।
पादैर्विकृष्ट मध्वानमागताः किं न बुध्यसे ॥ 44 ॥

तवेष्टा ननु नामैता भार्याश्चंद्रनिभाननाः ।
इदानीं नेक्षसे कस्तात्सुग्रीवं प्लवगेश्वरम् ॥ 45 ॥

एते हि सचिवा राजं स्तारप्रभृतयस्तव ।
पुरवासी जनश्चायं परिवार्यासतेऽनघ ॥ 46 ॥

विसर्जयैतान् प्लवगान्यथोचितमरिंदम ।
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ 47 ॥

एवं विलपतीं तारां पतिशोकपरिप्लुताम् ।
उत्थापयंति स्म तदा वानर्यश्शोककर्शिताः ॥ 48 ॥

सुग्रीवेण ततस्सार्धंमंगदः पितरं रुदन् ।
चितामारोपयामास शोकेनाभिहतेंद्रियः ॥ 49 ॥

ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह ।
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेंद्रियः ॥ 50 ॥

संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः ।
आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम् ॥ 51 ॥

ततस्ते सहितास्तत्र ह्यंगदं स्थाप्य चाग्रतः ।
सुग्रीवतारासहितास्सिषिचुर्वालिने जलम् ॥ 52 ॥

सुग्रीवेणेव दीनेन दीनो भूत्वा महाबलः ।
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ 53 ॥

ततस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम् ।
प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान्हरिः ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचविंशस्सर्गः ॥




Browse Related Categories: