View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.99 युद्धकांड - एकोनशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनशततमस्सर्गः ।

महोदरेतुनिहतेमहापार्श्वोमहाबलः ।
सुग्रीवेणसमीक्ष्याथक्रोधात्सम्ररक्तलोचनः ॥ 1 ॥

अंगदस्यचमूंभीमांक्षोभयामाससायकैः ।
सवानराणांमुख्यानामुत्तमांगानिसर्वशः ॥ 2 ॥

पातयामानकायेभ्यःफलंवृंतादिवानिलः ।
केषांचिदिषुभिर्बाहुन् स्कंधांश्छिच्छेदराक्षसः च ॥ 3 ॥

वानराणांसुंकृद्धः पार्श्वंकेषांव्यदारयत् ।
तेऽर्दिताबाणवर्षेणमहापार्श्वेनवानराः ॥ 4 ॥

विषादविमुखाःसर्वेबभूवुर्गतचेतसः ।
निरीक्ष्यबलमुद्विग्नमंगदोराक्षसार्दितम् ॥ 5 ॥

पूरिता तेन शब्देन सनदीगिरिकानना ।
संचचाल मही सर्वा सवराहमृगद्विपा ॥ 6 ॥

समरेवानरश्रेष्ठोमहापार्श्वेन्यपातयत् ।
स तुतेनप्रहारेणमहापार्श्वोविचेतनः ॥ 7 ॥

ससूतस्स्यंदनात्तस्माद्विसंज्ञश्चापतद्भुवि ।
स ऋक्षराजस्तेजस्वीनीलांजनचयोपमः ॥ 8 ॥

निष्पत्यसुमहावीर्यस्स्वाद्व्यूहन्मेघसन्निभात् ।
प्रगृह्यगिरिशृंगाभांक्रुद्धस्सविपुलांशिलाम् ॥ 9 ॥

अश्वांजघानतरसाबभंजतं स्यंदनं च तम् ।
मुहूर्ताल्लब्धसंज्ञस्तुमहापार्श्वोमहाबलः ॥ 10 ॥

अंगदंबहुभिर्बाणैर्भूयस्तंप्रत्यविध्यत ।
जांबवंतंत्रिभिर्बाणैराजघानस्तनांतरे ॥ 11 ॥

ऋक्षराजंगवाक्षं च जघानबहुभिश्शरैः ।
जांबवंतंगवाक्षं च स दृष्टवाशरपीडितौ ॥ 12 ॥

जग्राहपरिघंघोरमंगदःक्रोधमूर्छितः ।
तस्यांगदःप्रकुपितोराक्षसस्यतमायसम् ॥ 13 ॥

दूरस्थितस्यपरिघंरविरश्मिसमप्रभम् ।
द्वावाभ्यांभुजाभ्यांसंगृह्यभ्रामयित्वा च वेगवान् ॥ 14 ॥

महापार्श्वस्यचिक्षेपवधार्थंवालिनस्सुतः ।
स तुक्षिप्तोबलवतापरिघंतस्यरक्षसः ॥ 15 ॥

धनुश्चसशरंहस्ताछचिरस्त्रांचाप्यपातयत् ।
तंसमासाद्यवेगेनवालिपुत्रःप्रतापवान् ॥ 16 ॥

तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुंडले ।
स तुक्रुद्धोमहावेगोमहापार्श्वोमहाद्युति ॥ 17 ॥

करेणैकेनजग्राहसुमहांतंपरश्वथम् ।
तंम्तैलधौतंविमलंशैलसारमयंदृढम् ॥ 18 ॥

राक्षसःपरमक्रुद्धोवालिपुत्रेन्यपातयत् ।
तेनवामांसफलकेभृशंप्रत्यवपादितम् ॥ 19 ॥

अंगदोमोक्ष्यामाससरोषस्सपरश्वधम् ।
सवीरोवज्रसंकाशमंगदोमुष्टिमात्मनः ॥ 20 ॥

संवर्तयत्सुसंकृद्धःपितृतुल्यपराक्रमः ।
राक्षसस्यस्तनाभ्याशेमर्मज्ञोहृदयंप्रति ॥ 21 ॥

इंद्राशनिमस्पर्शं स मुष्टिंविन्यपातयत् ।
तेनतस्यनिपातेनराक्षसस्यमहामृधे ॥ 22 ॥

पफालहृदयंचास्य स पपातहतोभुवि ।
स्मिन्निपतितेभूमौतत्सैन्यंसंप्रचुक्षुभे ॥ 23 ॥

अभवच्चमहान्क्रोधस्समरेरावणस्यतु ।
वानराणांश्चहृष्टानांसिंहनादःसुपुष्कलः ॥ 24 ॥

स्पोटयन्निवशब्देनलंकांसाट्टालगोपुराम् ।
महेंद्रेणेवदेवानांनादस्समभवन्महान् ॥ 25 ॥

अथैंद्रशत्रुस्त्रिदिवालयानांवनौकनांचैवम्हाप्रणादम् ।
श्रुत्वासरोषंयुधिराक्षसेंद्रः ।
पुनश्चयुद्धाभिमुखोऽवतस्थे ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनशततमस्सर्गः ॥




Browse Related Categories: