View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.19 सुंदरकांड - एकोनविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकोनविंशस्सर्गः ।

तस्मिन्नेव ततः काले राजपुत्री त्वनिंदिता ।
रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ॥ 1 ॥

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।
प्रावेपत वरारोहा प्रवाते कदली यथा ॥ 2 ॥

आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ।
उपविष्टा विशालाक्षी रुदंती वरवर्णिनी ॥ 3 ॥

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ।
ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ 4 ॥

असंवृतायामासीनां धरण्यां संशितव्रताम् ।
छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ 5 ॥

मलमंडनचित्रांगीं मंडनार्हाममंडिताम् ।
मृणाली पंकदिग्धेव विभाति न विभाति च ॥ 6 ॥

समीपं राजसिंहस्य रामस्य विदितात्मनः ।
संकल्पहयसंयुक्सैर्यांतीमिव मनोरथैः ॥ 7 ॥

शुष्यंतीं रुदतीमेकां ध्यानशोकपरायणाम् ।
दुःखस्यांतमपश्यंतीं रामां राममनुव्रताम् ॥ 8 ॥

वेष्टमानां तथाऽविष्टां पन्नगेंद्रवधूमिव ।
धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ 9 ॥

वृत्तशीलकुले जातामाचारवति धार्मिके ।
पुनःसंस्कारमापन्नां जातामिव च दुष्कुले ॥ 10 ॥

अभूतेनापवादेन कीर्तिं निपतितामिव ।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ 11 ॥

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् ।
पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥ 12 ॥

आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ।
दीप्तामिव दिशं काले पूजामपहृतामिव ॥ 13 ॥

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ।
प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ 14 ॥

वेदीमिव परामृष्टां शांतामग्निशिखामिव ।
पौर्णमासीमिव निशां राहुग्रस्तेंदुमंडलाम् ॥ 15 ॥

उत्कृष्टपर्णकमलां वित्रासितविहंगमाम् ।
हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ॥ 16 ॥

पतिशोकातुरां शुष्कां नदीं विस्रावितामिव ।
परया मृजया हीनां कृष्णपक्षनिशामिव ॥ 17 ॥

सुकुमारीं सुजातांगीं रत्नगर्भगृहोचिताम् ।
तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ 18 ॥

गृहीतामालितां स्तंभे यूथपेन विनाकृताम् ।
निःश्वसंतीं सुदुःखार्तां गजराजवधूमिव ॥ 19 ॥

एकया दीर्घया वेण्या शोभमानामयत्नतः ।
नीलया नीरदापाये वनराज्या महीमिव ॥ 20 ॥

उपवासेन शोकेन ध्यानेन च भयेन च ।
परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ 21 ॥

आयाचमानां दुःखार्तां प्रांजलिं देवतामिव ।
भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ 22 ॥

समीक्षमाणां रुदतीमनिंदितां सुपक्ष्मताम्रायतशुक्ललोचनाम् ।
अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकोनविंशस्सर्गः ॥




Browse Related Categories: