View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.11 अयोध्याकांड - एकादश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकादशस्सर्गः ।

तं मन्मथशरैर्विद्धमं कामवेगवशानुगम् ।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ 1 ॥

नास्मि विप्रकृतादेव केनचिन्नावमानिता ।
अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ 2 ॥

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ।
अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ 3 ॥

तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः ।
कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥ 4 ॥

आवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।
मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ 5 ॥

तेनाजय्येन मुख्येन राघवेण महात्मना ।
शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छासि ॥ 6 ॥

यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 7 ॥

आत्मना वात्मजैश्चान्यैर्वृणेयं मनुजर्षभम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 8 ॥

भद्रे हृदयमप्येतदनुमृशोद्धरस्व मे ।
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥ 9 ॥

बलमात्मनि जानंती न मां शंकितुमर्हसि ।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ 10 ॥

सा तदर्थमना देवी तमभिप्रायमागतम् ।
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥ 11 ॥

तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।
व्याजहार महाघोरमभ्यागतमिवांतकम् ॥ 12 ॥

यथा क्रमे शपसि वरं मम ददासि च ।
तच्छृण्वंतु त्रयस्त्रिंशद्देवास्साग्निपुरोगमाः ॥ 13 ॥

चंद्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः ।
जगच्च पृथिवी चेयं सगंधर्वा सराक्षसा ॥ 14 ॥

निशाचराणि भूतानि गृहेषु गृहदेवता ।
यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ 15 ॥

सत्यसंधो महातेजाः धर्मज्ञः सुसमाहितः ।
वरं मम ददात्येष तन्मे श्रृण्वंतु दैवताः ॥ 16 ॥

इति देवी महेष्वासं परिगृह्याभिशस्य च ।
ततः परमुवाचेदं वरदं काममोहितम् ॥ 17 ॥

स्मर राजन् पुरावृत्तं तस्मिन् दैवासुरे रणे ।
तत्र चाच्यावयच्छत्रुस्तव जीवितमंतरा ॥ 18 ॥

तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥ 19 ॥

तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।
तथैव पृथिवीपाल सकाशे सत्यसंगर ॥ 20 ॥

तत् प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ 21 ॥

वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
प्रचस्कंद विनाशाय पाशं मृग इवात्मनः ॥ 22 ॥

ततः परमुवाचेदं वरदं काममोहितम् ।
वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥ 23 ॥

तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ।
अभिषेकसमारंभो राघवस्योपकल्पितः ॥ 24 ॥

अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ।
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥ 25 ॥

तदा दैवासुरे युद्धे तस्य कालोऽयमागत ।
नव पंच च वर्षाणि दंडकारण्यमाश्रितः ॥ 26 ॥

चीराजिनजटाधारी रामो भवतु तापसः ।
भरतो भजतामद्य यौवराज्यमकंटकम् ॥ 27 ॥

एष मे परमः कामो दत्तमेव वरं वृणे ।
अद्य चैव हि पश्येयं प्रयांतं राघवं वनम् ॥ 28 ॥

स राजराजः भव सत्यसंगरः कुलं च शीलं च हि रक्ष जन्म च ।
परत्रवासे हि वदंत्यनुत्तमं तपोधनास्सत्यवचो हितं नृणाम् ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकादशस्सर्गः ॥




Browse Related Categories: