View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.9 सुंदरकांड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ नवमस्सर्गः ।

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् ।
ददर्श भवनश्रेष्ठं हनुमान्मारुतात्मजः ॥ 1 ॥

अर्धयोजनविस्तीर्णमायतं योजनं हि तत् ।
भवनं राक्षसेंद्रस्य बहुप्रासादसंकुलम् ॥ 2 ॥

मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ।
सर्वतः परिचक्राम हनूमानरिसूदनः ॥ 3 ॥

उत्तमं राक्षसावासं हनुमानवलोकयन् ।
आससादाथ लक्ष्मीवान् राक्षसेंद्रनिवेशनम् ॥ 4 ॥

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ।
परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥ 5 ॥

राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् ।
आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ 6 ॥

तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम् ।
वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ 7 ॥

या हि वैश्रवणे लक्ष्मीर्या चेंद्रे हरिवाहने ।
सा रावणगृहे सर्वा नित्यमेवानपायिनी ॥ 8 ॥

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।
तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥ 9 ॥

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ।
बहुनिर्यूहसंकीर्णं ददर्श पवनात्मजः ॥ 10 ॥

ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा ।
विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ॥ 11 ॥

परेण तपसा लेभे यत्कुबेरः पितामहात् ।
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ 12 ॥

ईहामृगसमायुक्त्तैः कार्तस्वरहिरमण्मयैः ।
सुकृतैराचितं स्तंभैः प्रदीप्तमिव च श्रिया ॥ 13 ॥

मेरुमंदरसंकाशैरुल्लिखद्भिरिवांबरम् ।
कूटागारैश्शुभाकारैस्सर्वतस्समलंकृतम् ॥ 14 ॥

ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ।
हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥ 15 ॥

जालवातायनैर्युक्तं कांचनैः स्स्फाटिकैरपि ।
इंद्रनीलमहानीलमणिप्रवरवेदिकम् ॥ 16 ॥

विद्रुमेण विचित्रेण मणिभिश्च महाघनैः ।
निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ 17 ॥

चंदनेन च रक्तेन तपनीयनिभेन च ।
सुपुण्यगंधिना युक्तमादित्यतरुणोपमम् ॥ 18 ॥

कूटागारैर्वराकारैर्विविधैस्समलंकृतम् ।
विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥ 19 ॥

तत्रस्थस्स तदा गंधं पानभक्ष्यान्नसंभवम् ।
दिव्यं सम्मूर्छितं जिघ्रद्रूपवंतमिवानिलम् ॥ 20 ॥

स गंधस्तं महासत्त्वं बंधुर्बंधुमिवोत्तमम् ।
इत एहीत्युवाचेन तत्र यत्र स रावणः ॥ 21 ॥

ततस्तां प्रस्थितश्शालां ददर्श महतीं शुभाम् ।
रावणस्य मनः कांतां कांतामिव वरस्त्रियम् ॥ 22 ॥

मणिसोपानविकृतां हेमजालविभूषिताम् ।
स्फाटिकैरावृततलां दंतांतरितरूपिकाम् ॥ 23 ॥

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ।
विभूषितां मणिस्तंभैस्सुबहुस्तंभभूषिताम् ॥ 24 ॥

नम्रैरृजुभिरत्युच्चैस्समंतात्सुविभूषितैः ।
स्तंभैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥ 25 ॥

महत्या कुथयास्तीर्णां पृथिवीलक्षणांकया ।
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् ॥ 26 ॥

नादितां मत्तविहगैर्दिव्यगंधाधिवासिताम् ।
परार्ध्यास्तरणोपेतां रक्षोधिपनिषेविताम् ॥ 27 ॥

धूम्रामगरुधूपेन विमलां हंसपांडुराम् ।
चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ 28 ॥

मनस्संह्लादजननीं वर्णस्यापि प्रसादिनीम् ।
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव ॥ 29 ॥

इंद्रियाणींद्रियार्थैस्तु पंच पंचभिरुत्तमैः ।
तर्पयामास मातेव तदा रावणपालिता ॥ 30 ॥

स्वर्गोऽयं देवलोकोऽयमिंद्रस्येयं पुरी भवेत् ।
सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ 31 ॥

प्रध्यायत इवापश्यत्प्रदीपांस्तत्र कांचनान् ।
धूर्तानिव महाधूतैर्देवनेन पराजितान् ॥ 32 ॥

दीपानां च प्रकाशेन तेजसा रावणस्य च ।
अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ 33 ॥

ततोऽपश्यत्कुथाऽऽसीनं नानावरायंबरस्रजम् ।
सहस्रं वरनारीणां नानावेषविभूषितम् ॥ 34 ॥

परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ।
क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा ॥ 35 ॥

तत्प्रसुप्तं विरुरुचे निश्शब्दांतरभूषणम् ।
निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ 36 ॥

तासां संवृतदंतानि मीलिताक्षीणि मारुतिः ।
अपश्यत्पद्मगंधीनि वदनानि सुयोषिताम् ॥ 37 ॥

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये ।
पुनस्संवृतपत्राणि रात्राविव बभुस्तदा ॥ 38 ॥

इमानि मुखपद्मानि नियतं मत्तषट्पदाः ।
अंबुजानीव फुल्लानि प्रार्थयंति पुनः पुनः ॥ 39 ॥

इति चामन्यत श्रीमानुपपत्त्या महाकपिः ।
मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ 40 ॥

सा तस्य शुशुभे शाला ताभिस्त्रीभिर्विराजिता ।
शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ 41 ॥

स च ताभिः परिवृतश्शुशुभे राक्षसाधिपः ।
यथा ह्युडुपतिश्शीमांस्ताराभिरभिसंवृतः ॥ 42 ॥

याश्च्यवंतेऽंबरात्ताराः पुण्यशेषसमावृताः ।
इमास्तास्संगताः कृत्स्ना इति मेने हरिस्तदा ॥ 43 ॥

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ।
प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ 44 ॥

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ।
पानव्यायामकालेषु निद्रापहृतचेतसः ॥ 45 ॥

व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रंतनूपुराः ।
पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥ 46 ॥

मुक्ताहाराऽवृताश्चान्याः काश्चिद्विस्रस्तवाससः ।
व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥ 47 ॥

सुकुंडलधराश्चान्या विच्छिन्नमृदितस्रजः ।
गजेंद्रमृदिताः फुल्ला लता इव महावने ॥ 48 ॥

चंद्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः ।
हंसा इव बभुस्सुप्ताः स्तनमध्येषु योषिताम् ॥ 49 ॥

अपरासां च वैडूर्याः कादंबा इव पक्षिणः ।
हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ 50 ॥

हंसकारंडवाकीर्णाश्चक्रवाकोपशोभिताः ।
आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ 51 ॥

किंकिणीजालसंकोशास्ता हैमविपुलांबुजाः ।
भावग्राहा यशस्तीराः सुप्ता नद्य इवाऽऽबभुः ॥ 52 ॥

मृदुष्वंगेषु कासांचित्कुचाग्रेषु च संस्थिताः ।
बभुर्वर्भूषणानीव शुभा भूषणराजयः ॥ 53 ॥

अंशुकांताश्च कासांचिन्मुखमारुतकंपिताः ।
उपर्युपरि वक्त्राणां व्याधूयंते पुनः पुनः ॥ 54 ॥

ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः ।
नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ 55 ॥

ववल्गुश्चात्र कासांचित्कुंडलानि शुभार्चिषाम् ।
मुखमारुतसंसर्गान्मंदं मंदं सुयोषिताम् ॥ 56 ॥

शर्कराऽसवगंधैश्च प्रकृत्या सुरभिः सुखः ।
तासां वदननिश्वासस्सिषेवे रावणं तदा ॥ 57 ॥

रावणाननशंकाश्च काश्चिद्रावणयोषितः ।
मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥ 58 ॥

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ।
अस्वतंत्राः सपत्नीनां प्रियमेवाऽचरंस्तदा ॥ 59 ॥

बाहूनुपनिधायान्याः पारिहार्यविभूषितान् ।
अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ 60 ॥

अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम् ।
अपरा त्वंकमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥ 61 ॥

ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः ।
परस्परनिविष्टांग्यो मदस्नेहवशानुगाः ॥ 62 ॥

अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा ।
मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ 63 ॥

लतानां माधवे मासि फुल्लानां वायुसेवनात् ।
अन्योन्य मालाग्रथितं संसक्तकुसुमोच्चयम् ॥ 64 ॥

व्यतिवेष्टितसुस्कंधमन्योन्यभ्रमराकुलम् ।
आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ 65 ॥

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ।
विवेकः शक्य आधातुं भूषणांगांबरस्रजाम् ॥ 66 ॥

रावणे सुखसंविष्टे तास्त्रियो विविधप्रभाः ।
ज्वलंतः कांचना दीपाः प्रैक्षंतानिमिषा इव ॥ 67 ॥

राजर्षिपितृदैत्यानां गंधर्वाणां च योषितः ।
राक्षसानां च याः कन्यास्तस्य कामवशं गताः ॥ 68 ॥

युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ।
समदा मदनेनैव मोहिताः काश्चिदागताः ॥ 69 ॥

न तत्र काचित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा ।
न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां ताम् ॥ 70 ॥

न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता ।
भार्याभवत्तस्य न हीनसत्त्वा न चापि कांतस्य न कामनीया ॥ 71 ॥

बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ।
इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ 72 ॥

पुनश्च सोऽचिंतयादात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता ।
अथायमस्यां कृतवान्महात्मा लंकेश्वरः कष्टमनार्यकर्म ॥ 73 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे नवमस्सर्गः ॥




Browse Related Categories: