View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.12 सुंदरकांड - द्वादश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ द्वादशस्सर्गः ।

स तस्य मध्ये भवनस्य मारुति र्लतागृहांश्चित्रगृहान्निशागृहान् ।
जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ 1 ॥

स चिंतयामास ततो महाकपिः प्रियामपश्यन्रघुनंदनस्य ताम् ।
ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥ 2 ॥

सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्ष्णतत्परा सती ।
अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥ 3 ॥

विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ।
समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥ 4 ॥

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ।
न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदंडो बलवांश्च वानरः ॥ 5 ॥

दृष्टमंतःपुरं सर्वं दृष्टा रावणयोषितः ।
न सीता दृश्यते साध्वीवृथा जातो मम श्रमः ॥ 6 ॥

किं नु मां वानराः सर्वे गतं वक्ष्यंति संगताः ।
गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥ 7 ॥

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ।
ध्रुवं प्रायमुपैष्यंति कालस्य व्यतिवर्तने ॥ 8 ॥

किं वा वक्ष्यति वृद्धश्च जांबवानांगदश्च सः ।
गतं पारं समुद्रस्य वानराश्च समागताः ॥ 9 ॥

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ 10 ॥

करोति सफलं जंतोः कर्म यत्तत्करोति सः ।
तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥ 11 ॥

भूयस्तावद्विचेष्यामि देशान्रावणपालितान् ।
आपानशाला विचितास्तथा पुष्पगृहाणि च ॥ 12 ॥

चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ।
निष्कुटांतररथ्याश्च विमानानि च सर्वशः ॥ 13 ॥

इति संचिंत्य भूयोऽपि विचेतुमुपचक्रमे ।
भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि ॥ 14 ॥

उत्पतन्निष्पतंश्चापि तिष्ठन्गच्छन् पुनः पुनः ।
अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन् ॥ 15 ॥

प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि ।
सर्वमप्यवकाशं स विचचार महाकपिः ॥ 16 ॥

चतुरंगुलमात्रोऽपि नावकाशः स विद्यते ।
रावणांतःपुरे तस्मिन् यं कपिर्न जगाम सः ॥ 17 ॥

प्राकारांतररथ्याश्च वेदिकाश्चैत्यसंश्रयाः ।
दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ 18 ॥

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ।
दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥ 19 ॥

रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः ।
दृष्टा हनुमता तत्र न तु राघवनंदिनी ॥ 20 ॥

नागकन्या वरारोहाः पूर्णचन्र्दनिभाननाः ।
दृष्टा हनुमता तत्र न तु सीता सुमध्यमा ॥ 21 ॥

प्रमथ्य राक्षसेंद्रेण नागकन्या बलाद्धृताः ।
दृष्टा हनुमता तत्र न सा जनकनंदिनी ॥ 22 ॥

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ।
विषसाद मुहुर्धीमान् हनुमान् मारुतात्मजः ॥ 23 ॥

उद्योगं वानरेंद्राणां प्लवनं सागरस्य च ।
व्यर्थं वीक्ष्यानिलसुतश्चिंतां पुनरुपागमत् ॥ 24 ॥

अवतीर्य विमानाच्च हनुमान् मारुतात्मजः ।
चिंतामुपजगामाथ शोकोपहतचेतनः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे द्वादशस्सर्गः ॥




Browse Related Categories: