View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.19 अरण्यकांड - एकोनविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकोनविंशस्सर्गः ।

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ॥ 1 ॥

उत्तिष्ठ तावदाख्याहि प्रमोहं जहि संभ्रमम् ।
व्यक्तमाख्याहि केन त्वमेवं रूपा विरूपिता ॥ 2 ॥

कः कृष्णसर्पमासीनमाशीविषमनागसम् ।
तुदत्यभिसमापन्नमंगुल्यग्रेण लीलया ॥ 3 ॥

कः कालपाशं समासज्य कंठे मोहान्न बुध्यते ।
यस्त्वामद्य समासाद्य पीतवान्विषमुत्तमम् ॥ 4 ॥

बलविक्रमसंपन्ना कामगा कामरूपिणी ।
इमामवस्थां नीता त्वं केनांतकसमागता ॥ 5 ॥

देवगंधर्वभूतानामृषीणां च महात्मनाम् ।
कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ 6 ॥

न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ।
अमरेषु सहस्राक्षं महेंद्रं पाकशासनम् ॥ 7 ॥

अद्याहं मार्गणैः प्राणानादास्ये जीवितांतकैः ।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ 8 ॥

निहतस्य मया संख्ये शरसंकृत्तमर्मणः ।
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥ 9 ॥

कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः ।
प्रहृष्टा भक्षयिष्यंति निहतस्य मया रणे ॥ 10 ॥

तं न देवा न गंधर्वा न पिशाचा न राक्षसाः ।
मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे ॥ 11 ॥

उपलभ्य शनैस्संज्ञां तं मे शंसितुमर्हसि ।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥ 12 ॥

इति भ्रातुर्वचश्श्रुत्वा क्रुद्धस्य च विशेषतः ।
ततश्शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥ 13 ॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुंडरीकविशालाक्षौ चीरकृष्णाजिनांबरौ ॥ 14 ॥

फलमूलाशनौ दांतौ तापसौ धर्मचारिणौ ।
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ 15 ॥

गंधर्वराजप्रतिमौ पार्थिवव्यंजनान्वितौ ।
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ 16 ॥

तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ 17 ॥

ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम् ।
इमामवस्थां नीताहं यथानाथासती तथा ॥ 18 ॥

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ 19 ॥

एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥ 20 ॥

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसानंतकोपमान् ॥ 21 ॥

मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनांबरौ ।
प्रविष्टौ दंडकारण्यं घोरं प्रमदया सह ॥ 22 ॥

तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ ।
इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ 23 ॥

मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः ।
शीघ्रं संपाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥ 24 ॥

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥ 25 ॥

ततस्तु ते तं समुदग्रतेजसं तथापिऽतीक्ष्णप्रदरा निशाचराः ।
न शेकुरेनं सहसा प्रमर्दितुं वनद्विपा दीप्तमिवाग्निमुत्थितम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकोनविंशस्सर्गः ॥




Browse Related Categories: