View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.28 अरण्यकांड - अष्टाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ अष्टाविंशस्सर्गः ।

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।
खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ 1 ॥

स दृष्ट्वा राक्षसं सैन्यमविसह्यं महाबलः ।
हतमेकेन रामेण त्रिशिरोदूषणावपि ॥ 2 ॥

तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ।
आससाद खरो रामं नमुचिर्वासवं यथा ॥ 3 ॥

विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् ।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ 4 ॥

ज्यां विधून्वंसुबहुशश्शिक्षयास्त्राणि दर्शयन् ।
चचार समरे मार्गांछरै रथगतः खरः ॥ 5 ॥

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥ 6 ॥

स सायकैर्दुर्विसहैस्सस्फुलिंगैरिवाग्निभिः ।
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ 7 ॥

तद्बभूव शितैर्बाणैः खररामविसर्जितैः ।
पर्याकाशमनाकाशं सर्वतश्शरसंकुलम् ॥ 8 ॥

शरजालावृतस्सूर्यो न तदा स्म प्रकाशते ।
अन्योन्यवधसंरंभादुभयोस्संप्रयुध्यतोः ॥ 9 ॥

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
आजघान खरो रामं तोत्रैरिव महाद्विपम् ॥ 10 ॥

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ।
ददृशुस्सर्वभूतानि पाशहस्तमिवांतकम् ॥ 11 ॥

हंतारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् ।
परिश्रांतं महासत्वं मेने रामं खरस्तदा ॥ 12 ॥

तं सिंहमिव विक्रांतं सिंहविक्रांतगामिनम् ।
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ 13 ॥

ततः सूर्यनिकाशेन रथेन महता खरः ।
आससाद रणे रामं पतंग इव पावकम् ॥ 14 ॥

ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।
खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम् ॥ 15 ॥

स पुनस्त्वपरान्सप्त शरानादाय वर्मणि ।
निजघान खरः क्रुद्धश्शक्राशनिसमप्रभान् ॥ 16 ॥

ततस्तत्प्रहतं बाणैः खरमुक्तैस्सुपर्वभिः ।
पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ 17 ॥

ततश्शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ॥ 18 ॥

स शरैरर्दितः क्रुद्धस्सर्वगात्रेषु राघवः ।
रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ 19 ॥

ततो गंभीरनिर्ह्रादं रामश्शत्रुनिबर्हणः ।
चकारांताय स रिपोस्सज्यमन्यन्महद्धनुः ॥ 20 ॥

सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।
वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ 21 ॥

ततः कनकपुंखैस्तु शरैस्सन्नतपर्वभिः ।
बिभेद रामस्संक्रुद्धः खरस्य समरे ध्वजम् ॥ 22 ॥

स दर्शनीयो बहुधा विकीर्णः कांचनध्वजः ।
जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ 23 ॥

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः ।
विव्याध युधि मर्मज्ञो मातंगमिव तोमरैः ॥ 24 ॥

स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः ।
विद्धो रुधिरसिक्तांगो बभूव रुषितो भृशम् ॥ 25 ॥

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।
मुमोच परमेष्वासष्षट्छरानभिलक्षितान् ॥ 26 ॥

शिरस्येकेन बाणेन द्वाभ्यां बह्वोरथार्दयत् ।
त्रिभिश्चंद्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ॥ 27 ॥

ततः पश्चान्महातेजा नाराचान्भास्करोपमान् ।
जिघांसू राक्षसंकृद्धस्त्रयोदश समाददे ॥ 28 ॥

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरस्संख्ये खरस्य रथसारथेः ॥ 29 ॥

त्रिभिस्त्रिवेणुं बलवांद्वाभ्यामक्षं महाबलः ।
द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ 30 ॥

छित्वा वज्रनिकाशेन राघवः प्रहसन्निव ।
त्रयोदशेनेंद्रसमो बिभेद समरे खरम् ॥ 31 ॥

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ 32 ॥

तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च ।
अपूजयन्प्रांजलयः प्रहृष्टाः तदा विमानाग्रगतास्समेताः ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे अष्टाविंशस्सर्गः ॥




Browse Related Categories: