View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.16 सुंदरकांड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षोडशस्सर्गः ।

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः ।
गुणाभिरामं रामं च पुनश्चिंतापरोऽभवत् ॥ 1 ॥

स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ।
सीतामाश्रित्य तेजस्वी हनूमान्विललाप ह ॥ 2 ॥

मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ।
यदि सीताऽऽपि दुःखार्ता कालो हि दुरतिक्रमः ॥ 3 ॥

रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।
नात्यर्थं क्षुभ्यते देवी गंगेव जलदागमे ॥ 4 ॥

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
राघवोऽऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ 5 ॥

तां दृष्ट्वा नवहेमाभां लोककांतामिव श्रियम् ।
जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ 6 ॥

अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः ।
रावणप्रतिमो वीर्ये कबंधश्च निपातितः ॥ 7 ॥

विराधश्च हतः संख्ये राक्षसो भीमविक्रमः ।
वने रामेण विक्रम्य महेंद्रेणेव शंबरः ॥ 8 ॥

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ 9 ॥

खरश्च निहतसंख्ये त्रिशिराश्च निपातितः ।
दूषणश्च महातेजा रामेण विदितात्मना ॥ 10 ॥

ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् ।
अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम् ॥ 11 ॥

सागरश्च मया क्रांतश्श्रीमान्नदनदीपतिः ।
अस्या हेतोर्विशालाक्ष्याः पुरी चेयमवेक्षिता ॥ 12 ॥

यदि रामः समुद्रांतां मेदिनीं परिवर्तयेत् ।
अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ 13 ॥

राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ।
त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥ 14 ॥

इयं सा धर्मशीलस्य मैथिलस्य महात्मनः ।
सुता जनकराजस्य सीता भर्तृदृढव्रता ॥ 15 ॥

उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपाम्सुभिः ॥ 16 ॥

विक्रांतस्यार्यशीलस्य संयुगेष्न्विवर्तिनः ।
स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ 17 ॥

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ।
इयं सा दयिता भार्या राक्षसीवशमागता ॥ 18 ॥

सर्वान् भोगान्परित्यज्य भर्तृस्नेहबलात्कृता ।
अचिंतयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ॥ 19 ॥

संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता ।
या परां भजते प्रीतिं वनेऽऽपि भवने यथा ॥ 20 ॥

सेयं कनकवर्णांगी नित्यं सुस्मितभाषिणी ।
सहते यातनामेतामनर्थानामभागिनी ॥ 21 ॥

इमां तु शीलसंपन्नां द्रष्टुमर्हति राघवः ।
रावणेन प्रमथितां प्रपामिव पिपासितः ॥ 22 ॥

अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति ।
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ 23 ॥

कामभोगैः परित्यक्ता हीना बंधुजनेन च ।
धारयत्यात्मनो देहं तत्समागमकांक्षिणी ॥ 24 ॥

नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ।
एकस्थहृदया नूनं राममेवानुपश्यति ॥ 25 ॥

भर्ता नाम परं नार्या भूषणं भूषणादपि ।
एषा तु रहिता तेन भूषणार्हा न शोभते ॥ 26 ॥

दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ 27 ॥

इमामसितकेशांतां शतपत्रनिभेक्षणाम् ।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ 28 ॥

क्षतिक्षमा पुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् ।
सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते संप्रति वृक्षमूले ॥ 29 ॥

हिमहतनलिनीव नष्टशोभा व्यसनपरंपरया निपीड्यमाना ।
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ 30 ॥

अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयंत्यशोकाः ।
हिमव्यपायेन च शीतरश्मि रभ्युत्थितो नैकसहस्ररश्मिः ॥ 31 ॥

इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः ।
संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षोडशस्सर्गः ॥




Browse Related Categories: