View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.32 अयोध्याकांड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वात्रिंशस्सर्गः ।

ततश्शासन माज्ञाय भ्रातु श्शुभतरं प्रियम् ।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ 1 ॥

तं विप्रमग्न्यगारस्थं वंदित्वा लक्ष्मणोऽब्रवीत् ।
सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ 2 ॥

ततस्संध्यामुपास्याशु गत्वा सौमित्रिणा सह ।
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ 3 ॥

तमागतं वेदविदं प्रांजलिस्सीतया सह ।
सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ 4 ॥

जातरूपमयैर्मुख्यैरंगदैः कुंडलैः शुभैः ।
सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ 5 ॥

अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञं स तदोवाच रामस्सीता प्रचोदितः ॥ 6 ॥

हारं च हेमसूत्रं च भार्यायै सौम्य हारय ।
रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ 7 ॥

अंगदानि विचित्राणि केयूराणि शुभानि च ।
प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ॥ 8 ॥

पर्यंकमग्य्रास्तरणं नानारत्नविभूषितम् ।
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ 9 ॥

नाग श्शत्रुंजयो नाम मातुलोऽयं ददौ मम ।
तं ते गजसहस्रेण ददामि द्विजसत्तम ॥ 10 ॥

इत्युक्तस्स हि रामेण सुयज्ञः प्रतिगृहृयतत् ।
रामलक्ष्मणसीतानां प्रयुयोजाशिष श्शुभाः ॥ 11 ॥

अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः ।
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ 12 ॥

अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।
अर्चयाहूय सौमित्रे रत्नैस्सस्यमिवांबुभिः ॥ 13 ॥

तर्पयस्व महाबाहो गोसहस्रैश्च मानद ।
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥ 14 ॥

कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति ।
आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ 15 ॥

तस्य यानं च दासीश्च सौमित्रे संप्रदापय ।
कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ 16 ॥

सूतश्चित्ररथश्चार्य सचिवस्सुचिरोषितः ।
तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥ 17 ॥

पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ।
ये चेमे कठकालापा बहवो दंडमाणवाः ॥ 18 ॥

नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वंति किंचन ।
अलसा स्वादुकामाश्च महतां चापि सम्मताः ॥ 19 ॥

तेषामशीतियानानि रत्नपूर्णानि दापय ।
शालिवाहसहस्रं च द्वे शते भद्रकां स्तथा ॥ 20 ॥

व्यंजनार्थं च सौमित्रे गोसहस्रमुपाकुरु ।
मेखलीनां महासंघः कौसल्यां समुपस्थितः ॥ 21 ॥

तेषां सहस्रं सौमित्रे प्रत्येकं संप्रदापय ।
अंबा यथा च सा नंदेत्कौसल्या मम दक्षिणाम् ॥ 22 ॥

तथा द्विजातीस्ता न्सर्वान् लक्ष्मणार्चय सर्वशः ।
तत स्सपुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ॥ 23 ॥

यथोक्तं ब्राह्मणेंद्राणांमददाद्धनदो यथा ।
अथाऽब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ॥ 24 ॥

संप्रदायबहुद्रव्यमेकैकस्योपजीवनम् ।
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ॥ 25 ॥

अशून्यं कार्यमेकैकं यावदागमनं मम ।
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ॥ 26 ॥

उवाचेदं धनाध्यक्षं धनमानीयतामिति ।
ततोऽस्य धनमाजह्रुस्सर्वमेवोपजीविनः ॥ 27 ॥

स राशिस्सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ।
ततस्सपुरुषव्याघ्र स्तद्धनं सहलक्ष्मणः ॥ 28 ॥

द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽह्यदापयत् ।
तत्रासीत्पिंगलो गार्ग्यस्त्रिजटो नाम वै द्विजः ॥ 29 ॥

क्षतवृत्तिर्वने नित्यं फालकुद्दाललांगली ।
तं वृद्धं तरुणी भार्या बालानादाय दारकान् ॥ 30 ॥

अब्रवीद्बाह्मणं वाक्यं दारिद्र्येणाभिपीडिता ।
अपास्य फालं कुद्दालं कुरुष्व वचनं मम ॥ 31 ॥

रामं दर्शय धर्मज्ञं यदि किंचिदवाप्स्यसि ।
स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ॥ 32 ॥

स प्रातिष्ठत पंथानं यत्र रामनिवेशनम् ।
भृग्वंगिरसमं दीप्त्या त्रिजटं जनसंसदि ॥ 33 ॥

आपंचमायाः कक्ष्यायाः नैनं कश्चिदवारयत् ।
स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ॥ 34 ॥

निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः ।
उंछवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ 35 ॥

तमुवाच ततो रामः परिहास समन्वितम् ।
गवां सहस्रमप्येकं न नु विश्राणितं मया ॥ 36 ॥

परिक्षिपसि दंडेन यावत्तावदवाप्स्यसि ।
स शाटीं त्वरितः कट्यां संभ्रांतः परिवेष्ट्य ताम् ॥ 37 ॥

आविद्ध्य दंडं चिक्षेप सर्वप्राणेन वेगितः ।
स तीर्त्वा सरयूपारं दंडस्तस्य कराच्च्युतः ॥ 38 ॥

गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ ।
तं परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ॥ 39 ॥

आनयामास ता गोपै स्त्रिजटायाश्रमं प्रति ।
उवाच स ततो रामस्तं गार्ग्यमभिसांत्वयन् ।
मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ 40 ॥

इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया ।
इमं भवानर्थमभि प्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ॥ 41 ॥

ब्रवीमि सत्येन नतेऽस्ति यंत्रणा धनं हि यद्यन्मम विप्रकारणात् ।
भवत्सु सम्यक्प्रतिपादनेन त न्मयार्जितं प्रीतियशस्करं भवेत् ॥ 42 ॥

तत स्सभार्य स्त्रिजटो महामुनि र्गवामनीकं प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृंहणी स्तदाशिषः प्रत्यवदन्महात्मनः ॥ 43 ॥

स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम् ।
नियोजयामास सुहृज्जनेऽचिरा द्यथार्हसम्मानवचः प्रचोदितः ॥ 44 ॥

द्विज स्सुहृद्भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत् ।
न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्मानन दान संभ्रमैः ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: