श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्विपंचाशस्सर्गः ।
स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥ 1 ॥
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥ 2 ॥
उपविष्टाय च तदा विश्वामित्राय धीमते ।
यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ 3 ॥
प्रतिगृह्य तु तां पूजां वसिष्ठाद्राजसत्तमः ।
तपोग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥ 4 ॥
विश्वामित्रो महातेजा वनस्पतिगणे तथा ।
सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् ॥ 5 ॥
सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणस्सुतः ॥ 6 ॥
कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रंजयन् ।
प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ॥ 7 ॥
कच्चित्ते संभृता भृत्याः कच्चित्तिष्ठंति शासने ।
कच्चित्ते विजितास्सर्वे रिपवो रिपुसूदन ॥ 8 ॥
कच्चिद्बलेषु कोशेषु मित्रेषु च परंतप ।
कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ॥ 9 ॥
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ॥ 10 ॥
कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः ।
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ 11 ॥
ततो वसिष्ठो भगवान् कथाऽंते रघुनंदन ।
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥ 12 ॥
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल ।
तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥ 13 ॥
सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम् ।
राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ 14 ॥
एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः ।
कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया ॥ 15 ॥
फलमूलेन भगवन् विद्यते यत्तवाश्रमे ।
पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ 16 ॥
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः ।
गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा ॥ 17 ॥
एवं ब्रुवंतं राजानं वसिष्ठःपुनरेव हि ।
न्यमंत्रयत धर्मात्मा पुनःपुनरुदारधीः ॥ 18 ॥
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
यथा प्रियं भगवतस्तथाऽस्तु मुनिपुंगव ॥ 19 ॥
एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥ 20 ॥
एह्येहि शबले क्षिप्रं श्रृणु चापि वचो मम ।
सबलस्यास्य राजर्षेःकर्तुं व्यवसितोऽस्म्यहम् ॥ 21 ॥
भोजनेन महार्हेण सत्कारं संविधत्स्व मे ।
यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् ।
तत्सर्वं कामधुक्क्षिप्रमभिवर्ष कृते मम ॥ 22 ॥
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।
अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्विपंचाशस्सर्गः ॥