View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.63 बालकांड - त्रिषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रिषष्टितमस्सर्गः ।

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।
अभ्यागच्छन् सुरास्सर्वे तपः फलचिकीर्षवः ॥ 1 ॥

अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः ।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिश्शुभैः ॥ 2 ॥

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ 3 ॥

ततः कालेन महता मेनका परमाऽप्सराः ।
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥ 4 ॥

तां ददर्श महातेजा मेनकां कुशिकात्मजः ।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ 5 ॥

दृष्ट्वा कंदर्पवशगो मुनिस्तामिदमब्रवीत् ।
अप्सरस्स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥ 6 ॥

अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ।
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥ 7 ॥

तस्यां वसंत्यां वर्षाणि पंच पंच च राघव ।
विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ॥ 8 ॥

अथ काले गते तस्मिन्विश्वामित्रो महामुनिः ।
सव्रीड इव सम्वृत्तश्चिंताशोकपरायणः ॥ 9 ॥

बुद्धिर्मुनेस्समुत्पन्ना सामर्षा रघुनंदन ।
सर्वं सुराणां कर्मैतत्तपोपहरणं महत् ॥ 10 ॥

अहोरात्रापदेशेन गतास्संवत्सरा दश ।
काममोहाभिभूतस्य विघ्नोऽयं समुपस्थितः ॥ 11 ॥

विनिश्श्वसन्मुनिवरः पश्चात्तापेन दुःखितः ।
भीतामप्सरसं दृष्ट्वा वेपंतीं प्रांजलिं स्थिताम् ॥ 12 ॥

मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ॥ 13 ॥

स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ।
कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ 14 ॥

तस्य वर्षसहस्रं तु घोरं तप उपासतः ।
उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ 15 ॥

आमंत्रयन् समागम्य सर्वे सर्षिगणा स्सुराः ।
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ 16 ॥

देवतानां वच श्शृत्वा सर्वलोकपितामहः ।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ 17 ॥

महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ।
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ॥ 18 ॥

ब्रह्मणस्स वचश्श्रुत्वा सर्वलोकेश्वरस्य ह ।
न विषण्णो न संतुष्टो विश्वामित्रस्तपोधनः ॥ 19 ॥

प्रांजलिः प्रणतो भूत्वा सर्वलोकपितामहम् ।
प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः ॥ 20 ॥

महर्षिशब्दमतुलं स्वार्जितैः कर्मभिश्शुभैः ।
यदि मे भगवानाह ततोऽहं विजितेंद्रियः ॥ 21 ॥

तमुवाच ततो ब्रह्मा न तावत् त्त्वं जितेंद्रियः ।
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥ 22 ॥

विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ।
ऊर्ध्वबाहुर्निरालंबो वायुभक्षस्तपश्चरन् ॥ 23 ॥

घर्मे पंचतपा भूत्वा वर्षास्वाकाशसंश्रयः ।
शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः ॥ 24 ॥

एवं वर्षसहस्रं हि तपो घोरमुपागमत् ।
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ॥ 25 ॥

संभ्रमस्सुमहानासीत्सुराणां वासवस्य च ।
रंभामप्सरसं शक्र स्सह सर्वैर्मरुद्गणैः ।
उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रिषष्टितमस्सर्गः ॥




Browse Related Categories: