View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.1 अयोध्याकांड - प्रथम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ प्रथमस्सर्गः ।

गच्छता मातुलकुलं भरतेन तदाऽनघ ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ 1 ॥

तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ 2 ॥

तत्रापि निवसंतौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ 3 ॥

राजाऽपि तौ महातेजा स्सस्मार प्रोषितौ सुतौ ।
उभौ भरतशत्रुघ्नौ महेंद्रवरुणोपमौ ॥ 4 ॥

सर्व एव तु तस्येष्टा श्चत्वारः पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥ 5 ॥

तेषामपि महातेजा रामो रतिकरःपितुः ।
स्वयंभूरिव भूतानां बभूव गुणवत्तरः ॥ 6 ॥

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः ॥ 7 ॥

कौशल्या शुशुभे तेन पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ 8 ॥

स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
भूमौवनुपमस्सूनुर्गुणैर्दशरथोपमः ॥ 9 ॥

स तु नित्यं प्रशांतात्मा मृदुपूर्वं च भाषते ।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ 10 ॥

कथंचिदुपकारेण कृतेनैकेन तुष्यति ।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ 11 ॥

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।
कथयन्नास्त वै नित्यमस्त्रयोग्यांतरेष्वपि ॥ 12 ॥

बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः ।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥ 13 ॥

नचानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरंजते ॥ 14 ॥

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
दीनानुकंपी धर्मज्ञो नित्यं प्रग्रहवांश्चुचिः ॥ 15 ॥

कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।
मन्यते परया कीर्त्या महत्स्वर्गफलं ततः ॥ 16 ॥

नाऽऽश्रेयसि रतो विद्वान्नविरुद्धकथारुचिः ।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ 17 ॥

अरोगस्तरुणो वाग्मी वपुष्मांदेशकालवित् ।
लोके पुरुषसारज्ञ स्साधुरेको विनिर्मितः ॥ 18 ॥

स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥ 19 ॥

सम्यग्विद्याव्रतस्नातो यथावत्सांगवेदवित् ।
इष्वस्त्रे च पितु श्श्रेष्ठो बभूव भरताग्रजः ॥ 20 ॥

कल्याणाभिजन स्साधुरदीन स्सत्यवागृजुः ।
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥ 21 ॥

धर्मकामार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् ।
लौकिके समयाचारे कृतकल्पो विशारदः ॥ 22 ॥

निभृत स्संवृताकारो गुप्तमंत्र स्सहायवान् ।
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ 23 ॥

दृढभक्ति स्स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
निस्तंद्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ 24 ॥

शास्त्रज्ञश्च कृतज्ञश्च पुरुषांतरकोविदः ।
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ 25 ॥

सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।
आयकर्मण्युपायज्ञ स्संदृष्टव्ययकर्मवित् ॥ 26 ॥

श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
अर्थधमौ च संगृह्य सुखतंत्रो न चालसः ॥ 27 ॥

वैहारिकाणां शिल्पानां विज्ञाताऽऽर्थविभागवित् ।
आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ 28 ॥

धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः ।
अभियाता प्रहर्ता च सेनानयविशारदः ॥ 29 ॥

अप्रधृष्यश्च संग्रामे क्रुध्दैरपि सुरासुरैः ।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
न चावमंता भूतानां न च कालवशानुगः ॥ 30 ॥

एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ॥ 31 ॥

बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।
तथा सर्वप्रजाकांतैः प्रीतिसंजननैः पितुः ॥ 32 ॥

गुणैर्विरुरुचे रामो दीप्तस्सूर्य इवांशुभिः ।
तमेवं व्रतसंपन्नमप्रधृष्यपराक्रमम् ॥ 33 ॥

लोक पालोपमं नाथमकामयत मेदिनी ।
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैस्सुतम् ॥ 34 ॥

दृष्ट्वा दशरथो राजा चक्रे चिंतां परंतपः ।
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥ 35 ॥

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥ 36 ॥

कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।
वृद्धिकामो हि लोकस्य सर्वभूतानुकंपनः ॥ 37 ॥

मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ।
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥ 38 ॥

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।
महीमहमिमां कृत्स्नामधितिष्ठंतमात्मजम् ॥ 39 ॥

अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ।
इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः ॥ 40 ॥

शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ।
तं समीक्ष्य महाराजो युक्तं समुदितैश्शुभैः ॥ 41 ॥

निश्चित्य सचिवैस्सार्धं युवराजममन्यत ।
दिव्यंतरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥ 42 ॥

संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।
पूर्णचंद्राननस्याथ शोकापनुदमात्मनः ॥ 43 ॥

लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥ 44 ॥

प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।
नानानगरवास्तव्यान्पृथग्जानपदानपि ॥ 45 ॥

समानिनाय मेदिन्याः प्रधानान्पृथिवीपतीन् ।
न तु केकयराजानं जनकं वा नराधिपः ॥ 46 ॥

त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।
तान्वेश्मनानाभरणैर्यथाऽर्हं प्रतिपूजितान् ॥ 47 ॥

ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।
अथोपविष्टे नृपतौ तस्मिन्परबलार्दने ॥ 48 ॥

ततः प्रविविशु श्शेषा राजानो लोकसम्मताः ।
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥ 49 ॥

राजानमेवाभिमुखाः निषेदुर्नियता नृपाः ।
सलब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानदैः ।
उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे प्रथमस्सर्गः ॥




Browse Related Categories: