View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.13 अयोध्याकांड - त्रयोदश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रयोदशस्सर्गः ।

अतदर्हं महाराजं शयानमतथोचितम् ।
ययातिमिव पुण्यांते देवलोकात्परिच्युतम् ॥ 1 ॥

अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी ।
पुनराकारयामास तमेव वरमंगना ॥ 2 ॥

अतदर्हं महाराजं शयानमतथोचितम् ।
ययातिमिव पुण्यांते देवलोकात्परिच्युतम् ॥ 3 ॥

अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी ।
पुनराकारयामास तमेव वरमंगना ॥ 4 ॥

त्वं कत्थसे महाराज सत्यवादी दृढव्रतः ।
मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ 5 ॥

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥ 6 ॥

मृते मयि गते रामे वनं मनुजपुंगवे ।
हंतानार्ये ममामित्रे सकामा सुखिनी भव ॥ 7 ॥

स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम् ।
प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥ 8 ॥

कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ 9 ॥

अपुत्रेण मया पुत्रश्श्रमेण महता महान् ।
रामो लब्धो महाबाहु स्सकथं त्यज्यते मया ॥ 10 ॥

शूरश्च कृतविद्यश्च जितक्रोधो क्षमापरः ।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥ 11 ॥

कथमिंदीवरश्यामं दीर्घबाहुं महाबलम् ।
अभिराममहं रामं प्रेषयिष्यामि दंडकान् ॥ 12 ॥

सुखानामुचितस्यैव दुःखैरनुचितस्य च ।
दुखं नामानुपश्येयं कथं रामस्य धीमतः ॥ 13 ॥

यदि दुःखमकृत्वाऽद्य मम संक्रमणं भवेत् ।
अदुःखार्हस्य रामस्य तत स्सुखमवाप्नुयाम् ॥ 14 ॥

नृशंसे पापसंकल्पे रामं सत्यपराक्रमम् ।
किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥ 15 ॥

अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे ।
तथा विलपतस्तस्य परिभ्रमितचेतसः ॥ 16 ॥

अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत ।
सा त्रियामा तथार्त्तस्य चंद्रमंडलमंडिता ॥ 17 ॥

राज्ञो विलपमानस्य न व्यभासत शर्वरी ।
तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ॥ 18 ॥

विललापार्तवद्युखं गगनासक्तलोचनः ।
न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे ॥ 19 ॥

क्रियतां मे दया भद्रे मयाऽयं रचितोऽंजलिः ।
अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥ 20 ॥

नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ।
एवमुक्त्वा ततो राजा कैकेयीं संयतांजलिः ॥ 21 ॥

प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः ।
शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् ॥ 22 ॥

कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ।
प्रसीद देवि रामोमेत्वद्दत्तं राज्यमव्यम् ॥ 23 ॥

लभतामसितापांगे यशः परमवाप्नु हि ।
मम रामस्य लोकस्य गुरूणां भरतस्य च ॥ 24 ॥

प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे विशुद्धभावस्य सुदुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः ।
श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ 25 ॥

ततस्स राजा पुनरेव मूर्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम् ।
समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुखितः ॥ 26 ॥

इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रयोदशस्सर्गः ॥




Browse Related Categories: