View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.11 किष्किंधाकांड - एकादश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकादशस्सर्गः ।

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।
सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च ॥ 1 ॥

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैश्शरैः ।
त्वं दहेः कुपितो लोकान्युगांत इव भास्करः ॥ 2 ॥

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ।
तन्ममैकमनाश्श्रुत्वा विधत्स्व यदनंतरम् ॥ 3 ॥

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥ 4 ॥

अग्राण्यारुह्य शैलानां शिखराणि महांत्यपि ।
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥ 5 ॥

बहवस्सारवंतश्च वनेषु विविधा द्रुमाः ।
वालिना तरसा भग्ना बलं प्रथयताऽत्मनः ॥ 6 ॥

महिषो दुंदुभिर्नाम कैलासशिखरप्रभः ।
बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ 7 ॥

वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ।
जगाम सुमहाकाय स्समुद्रं सरितां पतिम् ॥ 8 ॥

ऊर्मिमंतमभिक्रम्य सागरं रत्नसंचयम् ।
मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ 9 ॥

ततस्समुद्रो धर्मात्मा समुत्थाय महाबलः ।
अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ 10 ॥

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।
श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ 11 ॥

शैलराजो महारण्ये तपस्विशरणं परम् ।
शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ 12 ॥

गुहाप्रस्रवणोपेतो बहुकंदरनिर्दरः ।
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥ 13 ॥

तं भीत इति विज्ञाय समुद्रमसुरोत्तमः ।
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥ 14 ॥

ततस्तस्य गिरेश्श्वेता गजेंद्रविप्रलाश्शिलाः ।
चिक्षेप बहुधा भूमौ दुंदुभिर्विननाद च ॥ 15 ॥

ततश्श्वेतांबुदाकारः सौम्यः प्रीतिकराकृतिः ।
हिमवानब्रवीद्वाक्यं स्वे एव शिखरे स्थितः ॥ 16 ॥

क्लेष्टुमर्हसि मां न त्वं दुंदुभे धर्मवत्सल ।
रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥ 17 ॥

तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ।
उवाच दुंदुभिर्वाक्यं क्रोधात्संरक्तलोचनः ॥ 18 ॥

यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ।
समाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ 19 ॥

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ।
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ 20 ॥

वाली नाम महाप्राज्ञश्शक्रतुल्य पराक्रमः ।
अध्यास्ते वानरश्श्रीमान् किष्किंधामतुलप्रभाम् ॥ 21 ॥

स समर्थो महाप्राज्ञस्तव युद्धविशारदः ।
द्वंद्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥ 22 ॥

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।
स हि दुर्धर्षणो नित्यं शूरस्समरकर्मणि ॥ 23 ॥

श्रुत्वा हिमवतो वाक्यं कोधाविष्टस्स दुंदुभिः ।
जगाम तां पुरीं तस्य किष्किंधां वालिनस्तदा ॥ 24 ॥

धारयन्माहिषं रूपं तीक्ष्णशृंगो भयावहः ।
प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले ॥ 25 ॥

ततस्तु द्वारमागम्य किष्किंधाया महाबलः ।
ननर्द कंपयन्भूमिं दुंदुभिर्दुंदुभिर्यथा ॥ 26 ॥

समीपस्थांद्रुमान्भंजन्वसुधां दारयन्खुरैः ।
विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा ॥ 27 ॥

अंतःपुरगतो वाली श्रुत्वा शब्दममर्षणः ।
निष्पपात सह स्त्रीभिस्ताराभिरिव चंद्रमाः ॥ 28 ॥

मितं व्यक्ताक्षरपदं तमुवाचाथ दुंदुभिम् ।
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ 29 ॥

किमर्थं नगरद्वारमिदं रुध्द्वा विनर्दसि ।
दुंदुभे विदितो मेऽसि रक्षप्राणान्महाबल ॥ 30 ॥

तस्य तद्वचनं श्रुत्वा वानरेंद्रस्य धीमतः ।
उवाच दुंदुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ 31 ॥

न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि ।
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ 32 ॥

अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ।
गृह्यतामुदयस्स्वैरं कामभोगेषु वानर ॥ 33 ॥

दीयतां संप्रदानं च परिष्वज्य च वानरान् ।
सर्वशाखामृगेंद्र स्त्वं संसादय सुहृज्जनान् ॥ 34 ॥

सुदृष्टां कुरु किष्किंधां कुरुष्वात्मसमं पुरे ।
क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥ 35 ॥

यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् ।
हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ 36 ॥

स प्रहस्याब्रवीन्मंदं क्रोधात्तमसुरोत्तमम् ।
विसृज्य ताः स्त्रियस्सर्वास्ताराप्रभृतिकास्तदा ॥ 37 ॥

मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे ।
मदोऽयं संप्रहारेऽस्मिन्वीरपानं समर्थ्यताम् ॥ 38 ॥

तमेवमुक्त्वा संकृद्धो मालामुत्क्षिप्य कांचनीम् ।
पित्रा दत्तां महेंद्रेण युद्धाय व्यवतिष्ठत ॥ 39 ॥

विषाणयोर्गृहीत्वा तं दुंदुभिं गिरिसन्निभम् ।
आविध्यत तदा वाली विनदन्कपिकुंजरः ॥ 40 ॥

वाली व्यापातयांचक्रे ननर्द च महास्वनम् ।
श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥ 41 ॥

तयोस्तु क्रोधसंरंभात्परस्परजयैषिणोः ।
युद्धं समभवद्घोरं दुंदुभेर्वानरस्यच ॥ 42 ॥

अयुद्ध्यत तदा वाली शक्रतुल्यपराक्रमः ।
मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥ 43 ॥

परस्परं घ्नतो स्तत्र वानरासुरयोस्तदा ।
आसीदसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥ 44 ॥

व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः ।
तं तु दुंदुभिमुद्यम्य धरण्यामभ्यपातयत् ॥ 45 ॥

युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुंदुभिस्तदा ।
पपात च महाकायः क्षितौ पंचत्वमागतः ॥ 46 ॥

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।
चिक्षेप बलवान्वाली वेगेनैकेन योजनम् ॥ 47 ॥

तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिंदवः ।
प्रपेतुर्मारुतोत्क्षिप्ता मतंगप्याश्रमं प्रति ॥ 48 ॥

तांदृष्ट्वा पतितांस्तस्य मुनिश्शोणितविप्रुषः ।
क्रुद्धस्तत्र महाभागश्चिंतयामास कोन्वयम् ॥ 49 ॥

येन अहं सहसा स्पृष्टः शोणितेन दुरात्मना ।
कोऽयं दुरात्मा दुर् बुद्धिः अकृतात्मा च बालिशः ॥ 50 ॥

इत्युक्त्वाऽथ विनिष्क्रम्य ददर्श मुनिसत्तमः ।
महिषं पर्वताकारं गतासुं पतितं भुवि ॥ 51 ॥

स तु विज्ञाय तपसा वानरेण कृतं हि तत् ।
उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥ 52 ॥

इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ।
वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ॥ 53 ॥

संभग्नाः पादपाश्चैमेक्षिपतेहासुरीं तनुम् ।
समंतादाद्योजनं पूर्णमाश्रमं मामकं यदि ॥ 54 ॥

आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ।
ये चापि सचिवाः स्तस्य संश्रिता मामकं वनम् ॥ 55 ॥

न च तैरिह वस्तव्यं श्रुत्वा यांतु यथासुखम् ।
यदि तेऽपी ह तिष्ठंति शपिष्ये तानपि ध्रुवम् ॥ 56 ॥

वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते ।
पत्रांकुरविनाशाय फलमूलाभवाय च ॥ 57 ॥

दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् ।
बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥ 58 ॥

ततस्ते वानराश्श्रुत्वा गिरं मुनिसमीरिताम् ।
निश्चक्रमुर्वनात्तस्मात्तांदृष्ट्वा वालिरब्रवीत् ॥ 59 ॥

किं भवंतस्समस्ताश्च मतंगवनवासिनः ।
मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥ 60 ॥

ततस्ते कारणं सर्वं तदा शापं च वालिनः ।
शशंसुर्वानरास्सर्वे वालिने हेममालिने ॥ 61 ॥

एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् ।
स महर्षिंतदाऽसाद्य याचते स्म कृतांजलिः ॥ 62 ॥

महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा ।
शापधारणभीतस्तु वाली विह्वलतां गतः ॥ 63 ॥

ततश्शापभयाद्भीत ऋश्यमूकं महागिरिम् ।
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥ 64 ॥

तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम् ।
विचरामि सहामात्यो विषादेन विवर्जितः ॥ 65 ॥

एषोऽस्थिनिचयस्तस्य दुंदुभेस्संप्रकाशते ।
वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥ 66 ॥

इमे च विपुलास्सालास्सप्त शाखावलंबिनः ।
यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ 67 ॥

एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् ।
कथं तं वालिनं हंतुं समरे शक्ष्यसे नृप ॥ 68 ॥

तथा ब्रुवाणं सुग्रीवं प्रहसन् लक्ष्मणोऽब्रवीत् ।
कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥ 69 ॥

तमुवाचाथ सुग्रीवस्सप्त सालानिमान्पुरा ।
एवमेकैकशो वाली विव्याथाथ स चासकृत् ॥ 70 ॥

रामोऽपिदारयेदेषां बाणेनैकेन च द्रुमम् ।
वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥ 71 ॥

हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण ।
उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुश्शते ॥ 72 ॥

एवमुक्त्वा तु सुग्रीवो रामं रक्तांतलोचनम् ।
ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत् ॥ 73 ॥

शूरश्च शूरघाती च प्रख्यातबलपौरुषः ।
बलवान्वानरो वाली संयुगेष्वपराजितः ॥ 74 ॥

दृश्यंते चास्य कर्माणि दुष्कराणि सुरैरपि ।
यानि संचिंत्य भीतोऽहमृश्यमूकं समाश्रितः ॥ 75 ॥

तमजय्यमधृष्यं च वानरेंद्रममर्षणम् ।
विचिंतयन्न मुंचामि ऋश्यमूकमहन्विमम् ॥ 76 ॥

उद्विग्नश्शंकितश्चापि विचरामि महावने ।
अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः ॥ 77 ॥

उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल ।
त्वामहं पुरुषव्याघ्र हिमवंतमिवाश्रितः ॥ 78 ॥

किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः ।
अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥ 79 ॥

न खल्वहं त्वां तुलये नावमन्ये न भीषये ।
कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ॥ 80 ॥

कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ।
सूचयंति परं तेजो भस्मच्छन्नमिवानलम् ॥ 81 ॥

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।
स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥ 82 ॥

यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर ।
प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥ 83 ॥

एवमुक्त्वा तु सुग्रीवं सांत्वं लक्ष्मणपूर्वजः ।
राघवो दुंदुभेः कायं पादांगुष्ठेन लीलया ॥ 84 ॥

तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ।
असुरस्य तनुं शुष्कं पादांगुष्ठेन वीर्यवान् ॥ 85 ॥

क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ।
लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् ॥ 86 ॥

आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ॥ 87 ॥

लघुस्संप्रति निर्मांस स्तृणभूतश्च राघव ।
परिश्रांतेन मत्तेन भ्रात्रा मे वालिना तदा ॥ 88 ॥

क्षिप्तमेवं प्रहर्षेण भवता रघुनंदन ।
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् ।
आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवांतरम् ॥ 89 ॥

स एव संशयस्तात तव तस्य च यद्बले ॥ 90 ॥

सालमेकं तु निर्भिद्या भवेद्व्यक्तिर्बलाबले ।
कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम् ॥ 91 ॥

आकर्णपूर्णमायम्य विसृजस्व महाशरम् ।
इमं हि सालं सहित स्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति ।
अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया ॥ 92 ॥

यथा हि तेजस्सु वरस्सदा रवि र्यथा हि शैलो हिमवान्महाद्रिषु ।
यथा चतुष्पात्सु च केसरी वर स्तथा नरणामसि विक्रमे वरः ॥ 93 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकादशस्सर्गः ॥




Browse Related Categories: