View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.44 किष्किंधाकांड - चतुश्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।

विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान् ।
स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ 1 ॥

अब्रवीच्च हनूमंतं विक्रांतमनिलात्मजम् ।
सुग्रीवः परमप्रीतः प्रभु स्सर्ववनौकसाम् ॥ 2 ॥

न भूमौ नांतरिक्षे वा नांबरे नामरालये ।
नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव ॥ 3 ॥

सासुरास्सहगंधर्वास्सनागनरदेवताः ।
विदिता स्सर्वलोकास्ते ससागरधराधराः ॥ 4 ॥

गतिर्वेगश्च तेजश्च लाघवं च महाकपे ।
पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ 5 ॥

तेजसा वापि ते भूतं न समं भुवि न विद्यते ।
तद्यथा लभ्यते सीता तत्त्वमेवोपपादय ॥ 6 ॥

त्वय्येव हनुम न्नस्ति बलं बुद्धिः पराक्रमः ।
देशकालानुवृत्तिश्च नयश्च नयपंडित ॥ 7 ॥

ततः कार्यसमासंगमवगम्य हनूमति ।
विदित्वा हनुमंतं च चिंतयामास राघवः ॥ 8 ॥

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः ।
निश्चितार्थकरश्चापि हनूमान्कार्यसाधने ॥ 9 ॥

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ।
भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ 10 ॥

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ।
कृतार्थ इव संवृत्तः प्रहृष्टेंद्रियमानसः ॥ 11 ॥

ददौ तस्य ततः प्रीतस्स्वनामांकोपशोभितम् ।
अंगुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ 12 ॥

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा ।
मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति ॥ 13 ॥

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ।
सुग्रीवस्य च संदेशस्सिद्धिं कथयतीव मे ॥ 14 ॥

स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः ।
वंदित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥ 15 ॥

स तत्प्रकर्षन् हरीणां महद्बलं बभूव वीरः पवनात्मजः कपिः ।
गतांबुदे व्योम्नि विशुद्धमंडलः शशीव नक्षत्रगणोपशोभितः ॥ 16 ॥

अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः ।
पवनसुत यथाऽभिगम्यते सा जनकसुता हनुमं स्तथा कुरुष्व ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चतुश्चत्वारिंशस्सर्गः ॥




Browse Related Categories: