View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.70 अरण्यकांड - सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्ततितमस्सर्गः ।

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बाहुपाशपरिक्षिप्तौ कबंधो वाक्यमब्रवीत् ॥ 1 ॥

तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ ।
आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ ॥ 2 ॥

तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।
उवाचाऽर्तिं समापन्नो विक्रमे कृतलक्षणः ॥ 3 ॥

त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।
तस्मादसिभ्यामस्याशु बाहू छिंदावहै गुरू ॥ 4 ॥

भीषणोऽयं महाकायो राक्षसो भुजविक्रमः ।
लोकं ह्यतिजितं कृत्वा ह्यावां हंतुमिहेच्छति ॥ 5 ॥

निश्चेष्टानां वधो राजन्कुत्सितो जगतीपतेः ।
क्रतुमध्योपनीतानां पशूनामिव राघव ॥ 6 ॥

एतत्संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः ।
विदार्याऽस्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ 7 ॥

ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।
अच्छिंदतां सुसंविग्नौ बाहू तस्यांसदेशतः ॥ 8 ॥

दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ 9 ॥

स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।
खं च गां च दिशश्चैव नादयंजलदो यथा ॥ 10 ॥

स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ।
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ 11 ॥

इति तस्य ब्रुवाणस्य लक्ष्मणश्शुभलक्षणः ।
शशंस राघवं तस्य कबंधस्य महात्मनः ॥ 12 ॥

अयमिक्ष्वाकुदायादो रामो नाम जनैश्श्रुतः ।
अस्यैवावरजं विद्दि भ्रातरं मां च लक्ष्मणम् ॥ 13 ॥

अस्य देवप्रभावस्य वसतो विजने वने ।
रक्षसाऽपहृता पत्नी यामिच्छंताविहागतौ ॥ 14 ॥

त्वं तु को वा किमर्थं वा कबंधसदृशो वने ।
आस्येनोरसि दीप्तेन भग्नजंघो विचेष्टसे ॥ 15 ॥

एवमुक्तः कबंधस्तु लक्ष्मणेनोत्तरं वचः ।
उवाच परमप्रीत स्तदिंद्रवचनं स्मरन् ॥ 16 ॥

स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबंधनौ ॥ 17 ॥

विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा ।
तन्मे शृणु नरव्याघ्र तत्त्वतश्शंसतस्तव ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्ततितमस्सर्गः ॥




Browse Related Categories: