श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तविंशस्सर्गः ।
अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥ 1 ॥
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ 2 ॥
देवासुरगणान्वापि सगंधर्वोरगानपि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ 3 ॥
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दंडचक्रं महद्दिव्यं तव दास्यामि राघव ॥ 4 ॥
धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथात्युग्रमैंद्रमस्त्रं तथैव च ॥ 5 ॥
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥ 6 ॥
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ॥ 7 ॥
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।
धर्मपाशमहं राम कालपाशं तथैव च ॥ 8 ॥
पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ।
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनंदन ॥ 9 ॥
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥ 10 ॥
वायव्यं प्रथनं नाम ददामि च तवानघ ।
अस्त्रं हयशिरो नाम क्रौंचमस्त्रं तथैव च ।
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ॥ 11 ॥
कंकालं मुसलं घोरं कापालमथ कंकणम् ।
धारयंत्यसुरा यानि ददाम्येतानि सर्वशः ॥ 12 ॥
वैद्याधरं महास्त्रं च नंदनं नाम नामतः ।
असिरत्नं महाबाहो ददामि च नृपात्मज ॥ 13 ॥
गांधर्वमस्त्रं दयितं मानवं नाम नामतः ।
प्रस्वापनप्रशमने दद्मि सौरं च राघव ॥ 14 ॥
दर्पणं शोषणं चैव संतापनविलापने ।
मदनं चैव दुर्धर्षं कंदर्पदयितं तथा ॥ 15 ॥
पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ 16 ॥
तामसं नरशार्दूल सौमनं च महाबल ।
संवर्धं चैव दुर्धर्षं मौसलं च नृपात्मज ॥ 17 ॥
सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
घोरं तेजः प्रभं नाम परतेजोऽपकर्षणम् ॥ 18 ॥
सौम्यास्त्रं शिशिरं नाम त्वष्टुरस्त्रं सुदामनम् ।
दारुणं च भगस्यापि शितेषु मथ मानवम् ॥ 19 ॥
एतान् राम महाबाहो कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ 20 ॥
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मंत्रग्राममनुत्तमम् ॥ 21 ॥
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ 22 ॥
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ 23 ॥
ऊचुश्च मुदितास्सर्वे रामं प्रांजलयस्तदा ।
इमे स्म परमोदाराः किंकरास्तव राघव ॥ 24 ॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ 25 ॥
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तविंशस्सर्गः ॥