View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.51 सुंदरकांड - एकपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकपंचाशस्सर्गः ।

तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ 1 ॥

अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् ।
राक्षसेंद्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ 2 ॥

भ्रातुश्शृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ 3 ॥

राजा दशरथो नाम रथकुंजरवाजिमान् ।
पितेव बंधुर्लोकस्य सुरेश्वरसमद्युतिः ॥ 4 ॥

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।
पितुर्निदेशान्निष्क्रांतः प्रविष्टो दंडकावनम् ॥ 5 ॥

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।
रामो नाम महातेजा धर्म्यं पंथानमास्थितः ॥ 6 ॥

तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ 7 ॥

स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।
ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ॥ 8 ॥

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ 9 ॥

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ 10 ॥

त्वया विज्ञातपूर्वश्च वाली वानरपुंगवः ।
रामेण निहतस्संख्ये शरेणैकेन वानरः ॥ 11 ॥

स सीतामार्गणे व्यग्रस्सुग्रीवः सत्यसंगरः ।
हरीन् संप्रेषयामास दिशस्सर्वा हरीश्वरः ॥ 12 ॥

तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गंते ह्यधश्चोपरि चांबरे ॥ 13 ॥

वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः ।
असंगगतयशशीघ्रा हरिवीरा महाबलाः ॥ 14 ॥

अहं तु हनुमान्नाम मारुतस्यौरसस्सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ 15 ॥

समुद्रं लंघयित्वैव तां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ 16 ॥

तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः ।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ 17 ॥

न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जंते बुद्धिमंतो भवद्विधाः ॥ 18 ॥

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ 19 ॥

न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ 20 ॥

तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुबंधि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ 21 ॥

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ 22 ॥

लक्षितेयं मया सीता तथा शोकपरायणा ।
गृह्य यां नाभिजानासि पंचास्यामिव पन्नगीम् ॥ 23 ॥

नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ 24 ॥

तपस्संतापलब्धस्ते योऽयं धर्मपरिग्रहः ।
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥ 25 ॥

अवध्यतां तपोभिर्यां भवान् समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ 26 ॥

सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः ।
न दानवो न गंधर्वो न यक्षो न च पन्नगः ॥ 27 ॥

तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ।
न तु धर्मोपसंहारमधर्मफलसंहितम् ॥ 28 ॥

तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ 29 ॥

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ॥ 30 ॥

रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ।
कामं खल्वहमप्येकस्सवाजिरथकुंजराम् ॥ 31 ॥

लंकां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ॥ 32 ॥

उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।
अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः ॥ 33 ॥

न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ॥ 34 ॥

कालरात्रीति तां विद्धि सर्वलंकाविनाशिनीम् ।
तदलं कालपाशेन सीताविग्रहरूपिणा ॥ 35 ॥

स्वयं स्कंधावसक्तेन क्षेममात्मनि चिंत्यताम् ।
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ॥ 36 ॥

दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।
स्वानि मित्राणि मंत्रींश्च ज्ञातीन् भ्रात्रून् सुतान् हितान् ॥ 37 ॥

भोगांदारांश्च लंकां च मा विनाशमुपानय ।
सत्यं राक्षसराजेंद्र शृणुष्व वचनं मम ॥ 38 ॥

रामदासस्य दूतस्य वानरस्य विशेषतः ।
सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान् ॥ 39 ॥

पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।
देवासुरनरेंद्रेषु यक्षरक्षोगणेषु च ॥ 40 ॥

विद्याधरेषु सर्वेषु गंधर्वेषूरगेषु च ।
सिद्धेषु किन्नरेंद्रेषु पतत्रिषु च सर्वतः ॥ 41 ॥

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।
यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम् ॥ 42 ॥

सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ 43 ॥

देवाश्च दैत्याश्च निशाचरेंद्र गंधर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य स्थातुं न शक्तास्समरेषु सर्वे ॥ 44 ॥

ब्रह्मा स्वयंभूश्चतुराननो वा रुद्रस्त्रिणेत्रस्त्रिपुरांतको वा ।
इंद्रो महेंद्रस्सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ 45 ॥

स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः ॥ 46 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकपंचाशस्सर्गः ॥




Browse Related Categories: