View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.31 अयोध्याकांड - एकत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकत्रिंशस्सर्गः ।

एवं शृत्वा तु संवादं लक्ष्मणः पूर्वमागतः ।
बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ 1 ॥

स भ्रातुश्चरणौ गाढं निपीड्य रघुनंदनः ।
सीतामुवाचातियशां राघवं च महाव्रतम् ॥ 2 ॥

एवं शृत्वा तु संवादं लक्ष्मणः पूर्वमागतः ।
बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ 3 ॥

स भ्रातुश्चरणौ गाढं निपीड्य रघुनंदनः ।
सीतामुवाचातियशां राघवं च महाव्रतम् ॥ 4 ॥

यदि गंतुं कृताबुद्धिर्वनं मृगगजायुतम् ।
अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥ 5 ॥

मया समेतोऽरण्यानि बहूनि विचरिष्यसि ।
पक्षिभिर्मृगयूथैश्च संघुष्टानि समंततः ॥ 6 ॥

न देवलोकाक्रमणं नामरत्वमहं वृणे ।
ऐश्वर्यं वापि लोकानां कामये न त्वया विना ॥ 7 ॥

एवं ब्रुवाणस्सौमित्रिर्वनवासाय निश्चितः ।
रामेण बहुभिस्सांत्वैर्निषिध्दः पुनरब्रवीत् ॥ 8 ॥

अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।
किमिदानीं पुनरिदं क्रियते मन्निवारणम् ॥ 9 ॥

यदर्थं प्रतिषेधो मे क्रियते गंतुमिच्छतः ।
एतदिच्छामि विज्ञातुं संशयो हि ममानघ ॥ 10 ॥

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।
स्थितं प्राग्गामिनं वीरं याचमानं कृतांजलिम् ॥ 11 ॥

स्निग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः ।
प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे ॥ 12 ॥

मयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।
को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ 13 ॥

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ।
स कामपाशपर्यस्तो महातेजा महीपतिः ॥ 14 ॥

सा हि राज्यमिदं प्राप्य नृपस्याश्वपते स्सुता ।
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ 15 ॥

न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।
भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ 16 ॥

तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।
सौमित्रे भर कौशल्यामुक्तमर्थमिमं चर ॥ 17 ॥

एवं मम च ते भक्तिर्भविष्यति सुदर्शिता ।
धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ 18 ॥

एवं कुरुष्व सौमित्रे मत्कृते रघुनंदन ।
अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम् ॥ 19 ॥

एवमुक्तस्तु रामेण लक्ष्मण श्श्लक्ष्णया गिरा ।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ 20 ॥

तवैव तेजसा वीर भरतः पूजयिष्यति ।
कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ 21 ॥

कौशल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
यस्यास्सहस्रं ग्रामाणां संप्राप्त मुपजीवनम् ॥ 22 ॥

तदात्मभरणे चैव मम मातुस्तथैव च ।
पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ 23 ॥

कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।
कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥ 24 ॥

धनुरादाय सशरं खनित्रपिटकाधरः ।
अग्रतस्ते गमिष्यामि पंथानमनुदर्शयन् ॥ 25 ॥

आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ 26 ॥

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
अहं सर्वं करिष्यामि जाग्रत स्स्वपतश्च ते ॥ 27 ॥

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ 28 ॥

ये च राज्ञो ददौ दिव्ये महात्मा वरुण स्स्वयम् ।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ 29 ॥

अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ 30 ॥

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।
सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥ 31 ॥

स सुहृज्जनमामंत्र्यवनवासाय निश्चितः ।
इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ 32 ॥

तद्धिव्यं राजशार्दूल सत्कृतं माल्यभूषितम् ।
रामाय दर्शयामास सौमित्रिस्सर्वमायुधम् ॥ 33 ॥

तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् ।
काले त्वमागत सौम्य कांक्षिते मम लक्ष्मण ॥ 34 ॥

अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥ 35 ॥

वसंतीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।
तेषामपि च मे भूयस्सर्वेषांचोपजीविनाम् ॥ 36 ॥

वशिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम् ।
अभिप्रयास्यामि वनं समस्ता नभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकत्रिंशस्सर्गः ॥




Browse Related Categories: