View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.41 किष्किंधाकांड - एकचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकचत्वारिंशस्सर्गः ।

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ 1 ॥

नील मग्निसुतं चैव हनुमंतं च वानरम् ।
पितामहसुतं चैव जांबवंतं महाबलम् ॥ 2 ॥

सुहोत्रं च शरारिं च शरगुल्मं तथैव च ।
गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ 3 ॥

मैंदं च द्विविदं चैव विजयं गंधमादनम् ।
उल्कामुखमसंगं च हुताशनसुतावुभौ ॥ 4 ॥

अंगदप्रमुखान्वीरान्वीरः कपिगणेश्वरः ।
वेगविक्रमसंपन्नान्संदिदेश विशेषवित् ॥ 5 ॥

तेषामग्रेसरं चैव महाबलमथांगदम् ।
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ 6 ॥

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ 7 ॥

सहस्रशिरसं विंध्यं नानाद्रुमलतायुतम् ।
नर्मदां च नदीं रम्यां महोरगनिषेविताम् ॥ 8 ॥

ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।
वरदां च महाभागां महोरगनिषेविताम् ॥ 9 ॥

मेखलामुत्कलां चैव दशार्णनगराण्यपि ।
आश्ववंतीमवंतीं च सर्वामेवानुपश्यत ॥ 10 ॥

विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।
तथा वंगान्कलिंगांश्च कौशिकांश्च समंततः ॥ 11 ॥

अन्वीक्ष्य दंडकारण्यं सपर्वतनदीगुहाम् ।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥ 12 ॥

तथैवांध्रांश्च पुंड्रांश्च चोलान्पांड्यांत्स केरलान् ।
अयोमुखश्च गंतव्यः पर्वतो धातुमंडितः ॥ 13 ॥

विचित्रशिखर श्श्रीमांश्चित्रपुष्पितकाननः ।
सचंदनवनोद्देशो मार्गितव्यो महागिरिः ॥ 14 ॥

ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।
तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ 15 ॥

तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ।
द्रक्ष्यथाऽदित्यसंकाशमगस्त्यमृषिसत्तमम् ॥ 16 ॥

ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ 17 ॥

सा चंदनवनैर्दिव्यै प्रच्छन्ना द्वीपशालिनी ।
कांतेव युवतिः कांतां समुद्रमवगाहते ॥ 18 ॥

ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पांड्यानां गता द्रक्ष्यथ वानराः ॥ 19 ॥

ततस्समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् ।
अगस्त्येनांतरे तत्र सागरे विनिवेशितः ॥ 20 ॥

चित्रनानानगः श्रीमान्महेंद्रः पर्वतोत्तमः ।
जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ 21 ॥

नानाविधैर्नगै स्सर्वैलताभिश्चोपशोभितम् ।
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ 22 ॥

सिद्धचारणसंघैश्च प्रकीर्णं समनोरमम् ।
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ 23 ॥

द्वीपस्तस्यापरे पारे शतयोजनमायतः ।
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समंततः ॥ 24 ॥

तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ।
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ॥ 25 ॥

राक्षसाधिपतेर्वासस्सहस्राक्षसमद्युतेः ।
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ॥ 26 ॥

अंगारकेति विख्याता छायामाकृष्य भोजिनी ।
एवं निस्संशयान्कृत्वा संशयान्नष्टसंशयाः ॥ 27 ॥

मृगयध्वं नरेंद्रस्य पत्नीममिततेजसः ।
तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने ॥ 28 ॥

गिरिः पुष्पितको नाम सिद्धचारणसेवितः ।
चंद्रसूर्यांशुसंकाशस्सागरांबुसमावृतः ॥ 29 ॥

भ्राजते विपुलैश्शृंगैरंबरं विलिखन्निव ।
तस्यैकं कांचनं शृंगं सेवतेऽयं दिवाकरः ॥ 30 ॥

श्वेतं राजतमेकं च सेवतेऽयं निशाकरः ।
न तं कृतघ्नाः पश्यंति न नृशंसा न नास्तिकाः ॥ 31 ॥

प्रणम्य शिरसा शैलं तं विमार्गत वानराः ।
तमतिक्रम्य दुर्धर्ष स्सूर्यवान्नाम पर्वतः ॥ 32 ॥

अध्वना दुर्विगाहेन योजनानि चतुर्दश ।
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥ 33 ॥

सर्वकामफलैर्वृक्षै स्सर्वकालमनोहरैः ।
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥ 34 ॥

मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ।
तत्र नेत्रमनःकांतः कुंजरो नाम पर्वतः ॥ 35 ॥

अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥ 36 ॥

शरणं कांचनं दिव्यं नानारत्नविभूषितम् ।
तत्र भोगवती नाम सर्पाणामालयः पुरी ॥ 37 ॥

विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ।
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदष्ट्रैरैर्महाविषैः ॥ 38 ॥

सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ 39 ॥

तत्र चानंतरा देशा ये केचन सुसम्वृताः ।
तं च देशमतिक्रम्य महानृषभसंस्थितः ॥ 40 ॥

सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।
गोशीर्षकं पद्मकं च हरिश्यामं च चंदनम् ॥ 41 ॥

दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ।
न तु तच्चंदनं दृष्टवा स्प्रष्टव्यं च कदाचन ॥ 42 ॥

रोहिता नाम गंधर्वा घोरा रक्षंति तद्वनम् ।
तत्र गंधर्वपतयः पंच सूर्यसमप्रभाः ॥ 43 ॥

शैलूषो ग्रामणी श्शिग्रु श्शुभ्रो बभ्रुस्तथैव च ।
रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ॥ 44 ॥

अंते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।
ततः परं न वस्सेव्यः पितृलोक स्सुदारुणः ॥ 45 ॥

राजधानी यमस्यैषा कष्टेन तमसा वृता ।
एतावदेव युष्माभिर्वीरा वानरपुंगवाः ॥ 46 ॥

शक्यं विचेतुं गंतुं वा नातो गतिमतां गतिः ।
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ॥ 47 ॥

गतिं विदित्वा वैदेह्या स्सन्निवर्तितुमर्हथ ।
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ॥ 48 ॥

मत्तुल्यविभवो भोगै स्सुखं स विहरिष्यति ।
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ॥ 49 ॥

कृतापराधो बहुशो मम बंधुर्भविष्यति ।
अमितबलपराक्रमा भवंतो विपुलगुणेषु कुलेषु च प्रसूताः ।
मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकचत्वारिंशस्सर्गः ॥




Browse Related Categories: