View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.19 युद्धकांड - एकोनविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनविंशस्सर्गः ।

राघवेणाभयेदत्तेसन्नतोरावणानुजः ।
विभीषणोमहाप्राज्ञोभूमिंसमवलोकयन् ॥ 1 ॥

खात्पपातावनींहृष्टोभक्तेरनुचरैस्सह ।
सतरामस्यपरमात्मानिपपातविभीषणः ॥ 2 ॥

पादयोश्शरणान्वेषीचतुर्भिस्सहराक्षसैः ।
अब्रवीच्चतदावाक्यंरामंप्रतिविभीषणः ॥ 3 ॥

धर्मयुक्तंचयुक्तंचसांप्रतंसंप्रहर्षणम् ।
अनुजोरावणस्याहंतेनचाप्यवमानितः ।
भवंतंसर्वभूतानांशरण्यंशरणागतः ॥ 4 ॥

परित्यक्तामयालंकमित्राणिचधनानिच ।
भवद्गतंहिमेराज्यंजीवितंचसुखानिच ॥ 5 ॥

तथ्यतद्वचनंश्रुत्वारामोवचनमब्रवीत् ॥ 6 ॥

वचसासांत्वयित्वैनंलोचनाभ्यांपिबन्निव ।
आख्याहिममतत्त्वेनराक्षसानांबलाबलम् ॥ 7 ॥

एवमुक्तंतदारक्षोरामेणाक्लिष्टकर्मणा ।
रावणस्यबलंसर्वमाख्यातुमुपचक्रमे ॥ 8 ॥

अवध्यस्सर्वभूतानांगंधर्वोरगरक्षसाम् ।
राजपुत्रदशग्रीवोवरदानात्स्वयंभुवः ॥ 9 ॥

रावणानंतरोभ्राताममज्येष्ठश्चवीर्यवान् ।
कुंभकर्णोमहातेजाश्शक्रप्रतिबलोयुधि ॥ 10 ॥

रामसेनापतिस्तस्यप्रहास्तोयदिवाश्रुतः ।
कैलासेयेनसंग्रामेमणिभद्रःपराजितः ॥ 11 ॥

बद्दगोधांगुलित्रश्च अवध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतींद्रजित् ॥ 12 ॥

संग्रामसमयव्यूहेतर्पयित्वाहुताशनम् ।
अंतर्धानगतश्शत्रूनिंद्रजिद् हंतिराघवः ॥ 13 ॥

महोदरमहापार्श्वौराक्षसश्चाप्यकंपनः ।
अनीकस्थास्तुतस्यैतेलोकपालसमायुधि ॥ 14 ॥

दशकोटिसहस्राणिरक्षसांकामरूपिणाम् ।
मांसशोणितभक्ष्याणांलंकापुरनिवासिनाम् ॥ 15 ॥

सतैस्तुसहितोराजालोकपालानयोधयत् ।
सहदेवैस्तुतेभग्नारावणेनमहात्मना ॥ 16 ॥

विभीषणवचः श्रुत्वारामोदृढपराक्रमः ।
अन्वीक्ष्यमनसासर्वमिदंवचनमब्रवीत् ॥ 17 ॥

यानिकर्मापदानानिरावणस्यविभीषणः ।
अख्यातानिचतत्त्वेनह्यवगच्छामितान्यहम् ॥ 18 ॥

अहंहत्वादशग्रीवंसप्रहस्तंसबांधवम् ।
राजानंत्वांकरिष्यामिसत्यमेतद्ब्रवीमिते ॥ 19 ॥

रसातलं वा प्रविशेत्पातालं वापि रावणः ।
पितामहसकाशं वा न मे जीवन्विमोक्ष्यते ॥ 20 ॥

अहत्वारावणंसङ् ख्येसपुत्रजनबांधवम् ।
अयोध्यांनप्रवेक्ष्यामित्रिभिस्तैर्भ्रातृभिश्शपे ॥ 21 ॥

श्रुत्वातुवचनंतस्यरामस्याक्लिष्टकर्मणः ।
शिरसावंद्यधर्मात्मावक्तुमेवोपचक्रमे ॥ 22 ॥

राक्षसानांवधेसाह्यंलंकायाश्चप्रधर्षणे ।
करिष्यामियथाप्राणंप्रवेक्ष्यामिचवाहिनीम् ॥ 23 ॥

इतिब्रुवाणांरामस्तुपरिष्वज्यविभीषणम् ।
अब्रवील्लक्ष्मणंप्रीतस्समुद्राज्जलमानय ॥ 24 ॥

तेनचेमंमहाप्राज्ञमभिषिंचविभीषणम् ।
राजानंरक्षसांक्षिप्रंप्रसन्नेमयिमानद ॥ 25 ॥

एवमुक्तस्तुसौमित्रिरभ्यषिंचद्विभीषणम् ।
मध्येवानरमुख्यानांराजानंरामशासनात् ॥ 26 ॥

तंप्रसादंतुरामस्यदृष्टवासद्यःप्लवंगमाः ।
प्रचुक्रुशुर्महात्मानंसाधुसाध्वितिचाब्रुवन् ॥ 27 ॥

अथाब्रवीद् हनूमांश्चसुग्रीवश्चविभीषणम् ।
कथंसागरमक्षोभ्यंतरामवरुणालयम् ॥ 28 ॥

सैन्यैःपरिवृतास्सर्वेवानराणांमहौजसाम् ।
उपायंनाधिगच्छामोयथानदनदीपतिम् ।
तरामतरसासर्वेससैन्यावरुणालयम् ॥ 29 ॥

एवमुक्तस्तुधर्मज्ञःप्रत्युवाचविभीषणः ।
समुद्रंराघवोराजाशरणंगंतुमर्हति ॥ 30 ॥

खानितस्सगरेणायमप्रमेयोमहोदधिः ।
कर्तुमर्हतिरामस्यज्ञातेः कार्यंमहामतिः ॥ 31 ॥

एवंविभीषणेनोक्तोराक्षसेनविपश्चिता ।
अजगामाथसुग्रीवोयत्ररामस्सलक्ष्मणः ॥ 32 ॥

ततश्चाख्यातुमारेभेविभीषणवचश्शुभम् ।
सुग्रीवोविपुलग्रीवोस्सागरस्योपवेशनम् ॥ 33 ॥

प्रकृत्याधर्मशीलस्यराघवस्याप्यरोचत ॥ 34 ॥

विभीषणस्यमंत्रोऽयंममलक्ष्मण रोचते ।
सुग्रीवःपंडितोनित्यंभवान्मंत्रविचक्षणः ॥ 35 ॥

उभाभ्यांसंप्रधार्यार्थंरोचतेयत्तदुच्यताम् ।
एवमुक्तौततोवीरावुभौसुग्रीवलक्ष्मणौ ।
समुदाचारसंयुक्तमिदंवचनमूचतुः ॥ 36 ॥

किमर्थनौनरव्याघ्रः नरोचिष्यतिराघवः ।
विभीषणेनयच्चोक्तमस्मिन् कालेसुखावहम् ॥ 37 ॥

अबध्वासागरेसेतुंघोरेऽस्मिन्वरुणालये ।
लंकानासादितुंशक्यासेंद्रैरपिसुरासुरैः ॥ 38 ॥

विभीषणस्यशूरस्ययथार्थंक्रियतांवचः ॥ 39 ॥

अलंकालात्ययंकृत्वासागरोऽयंनियुज्यताम् ।
यथासैन्येनगच्छामपुरींरावणपालिताम् ॥ 40 ॥

एवमुक्तःकुशास्तीर्नोतीरेनदनदीपतेः ।
संविवेशतदारामोवेद्यामिवहुताशनः ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनविंशस्सर्गः ॥




Browse Related Categories: