View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.46 सुंदरकांड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षट्चत्वारिंशस्सर्गः ।

हतान्मंत्रिसुतान् बुद्ध्वा वानरेण महात्मना ।
रावणस्संवृताकारश्चकार मतिमुत्तमाम् ॥ 1 ॥

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
प्रघसं भासकर्णं च पंचसेनाग्रनायकान् ॥ 2 ॥

संदिदेश दशग्रीवो वीरान्नयविशारदान् ।
हनुमद्ग्रहणव्यग्रान्वायुवेगसमान्युधि ॥ 3 ॥

यात सेनाग्रगास्सर्वे महाबलपरिग्रहाः ।
सवाजिरथमातंगास्स कपिश्शास्यतामिति ॥ 4 ॥

यत्नैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।
कर्म चापि समाधेयं देशकालाविरोधिनम् ॥ 5 ॥

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।
सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥ 6 ॥

भवेदिंद्रेण वा सृष्टमस्मदर्थं तपोबलात् ।
सनागयक्षगंधर्वा देवासुरमहर्षयः ॥ 7 ॥

युष्माभिस्सहितैस्सर्वैर्मया सह विनिर्जिताः ।
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ॥ 8 ॥

तदेव नात्र संदेहः प्रसह्य परिगृह्यताम् ।
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ॥ 9 ॥

दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ।
वाली च सहसुग्रीवो जांबवांश्च महाबलः ॥ 10 ॥

नीलस्सेनापतिश्चैव ये चान्ये द्विविदादयः ।
नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ॥ 11 ॥

न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥ 12 ॥

प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।
कामं लोकास्त्रयस्सेंद्रास्ससुरासुरमानवाः ॥ 13 ॥

भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।
तथापि तु नयज्ञेन जयमाकांक्षता रणे ॥ 14 ॥

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चंचला ।
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥ 15 ॥

समुत्पेतुर्महावेगा हुताशसमतेजसः ।
रथैर्मत्तैश्च मातंगैर्वाजिभिश्च महाजवैः ॥ 16 ॥

शस्त्रैश्च विविधैस्तीक्ष्णैस्सर्वैश्चोपचिता बलैः ।
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ॥ 17 ॥

रश्मिमंतमिवोद्यंतं स्वतेजोरश्मिमालिनम् ।
तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ॥ 18 ॥

महामतिं महावेगं महाकायं महाबलम् ।
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥ 19 ॥

तै स्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।
तस्य पंचायसास्तीक्ष्णाश्शिताः पीतमुखाश्शराः ॥ 20 ॥

शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।
स तैः पंचभिराविद्धश्शरैश्शिरसि वानरः ॥ 21 ॥

उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ।
ततस्तु दुर्धरो वीरस्सरथस्सज्यकार्मुकः ॥ 22 ॥

किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ॥ 23 ॥

वृष्टिमंतं पयोदांते पयोदमिव मारुतः ।
अर्ध्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ॥ 24 ॥

चकार कदनं भूयो व्यवर्धत च वेगवान् ।
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ॥ 25 ॥

निपपात महावेगो विद्युद्राशिर्गिराविव ।
ततस्स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ॥ 26 ॥

विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ॥ 27 ॥

संजातरोषौ दुर्धर्षावुत्पेतुररिंदमौ ।
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽंबरे ॥ 28 ॥

मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ॥ 29 ॥

निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।
स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ॥ 30 ॥

तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।
ततस्तांस्त्रीन्हतान्ज्ञात्वा वानरेण तरस्विना ॥ 31 ॥

अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।
भासकर्णश्च संकृद्धश्शूलमादाय वीर्यवान् ॥ 32 ॥

एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।
पट्टिसेन शिताग्रेण प्रघसः प्रत्ययोधयत् ॥ 33 ॥

भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ॥ 34 ॥

अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।
समुत्पाट्य गिरेश्शृंगं समृगव्यालपादपम् ॥ 35 ॥

जघान हनुमान् वीरो राक्षसौ कपिकुंजरः ।
ततस्तेष्ववसन्नेषु सेनापतिषु पंचसु ॥ 36 ॥

बलं तदवशेषं च नाशयामास वानरः ।
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथैरथान् ॥ 37 ॥

स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ॥ 38 ॥

हतैश्च राक्षसैर्भूमी रुद्धमार्गा समंततः ।
ततः कपिस्तांध्वजिनीपतीन् रणे निहत्य वीरान्सबलान्सवाहनान् ।
समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: