View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.27 अरण्यकांड - सप्तविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तविंशस्सर्गः ।

खरं तु रामाभिमुखं प्रयांतं वाहिनीपतिः ।
राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ॥ 1 ॥

मां नियोजय विक्रांत सन्निवर्तस्व साहसात् ।
पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥ 2 ॥

प्रतिजानामि ते सत्यमायुधं चाहमालभे ।
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥ 3 ॥

अहं वास्य रणे मृत्युरेष वा समरे मम ।
विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ॥ 4 ॥

प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि ।
मयि वा निहते रामं संयुगायोपयास्यसि ॥ 5 ॥

खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः ।
गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ 6 ॥

त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।
अभ्यद्रवद्रणे रामं त्रिशृंग इव पर्वतः ॥ 7 ॥

शरधारासमूहान्स महामेघ इवोत्सृजन् ।
व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुंदुभेः ॥ 8 ॥

आगच्छंतं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।
धनुषा प्रतिजग्राह विधुन्वन्सायकान् शितान् ॥ 9 ॥

स संप्रहारस्तुमुलो रामत्रिशिरसोर्महान् ।
बभूवातीव बलिनोस्सिंहकुंजरयोरिव ॥ 10 ॥

ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ।
अमर्षी कुपितोरामस्संरब्धमिदमब्रवीत् ॥ 11 ॥

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ।
पुष्पैरिव शरैर्यस्य ललाटेऽस्मिन्परिक्षतः ॥ 12 ॥

ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान् ।
एवमुक्त्वा तु संरब्धश्शरानाशीविषोपमान् ॥ 13 ॥

त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ।
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः ॥ 14 ॥

न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ।
अष्टभिस्सायकैस्सूतं रथोपस्थान्न्यपातयत् ॥ 15 ॥

रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ।
ततो हतरथात्तस्मादुत्पतंतं निशाचरम् ॥ 16 ॥

बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः ।
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ॥ 17 ॥

शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिश्शितैः ।
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ॥ 18 ॥

न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः ।
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रया ॥ 19 ॥

द्रवंति स्म न तिष्ठंति व्याघ्रत्रस्ता मृगा इव ।
तान्खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्स्वयम् ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तविंशस्सर्गः ॥




Browse Related Categories: