View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.19 किष्किंधाकांड - एकोनविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकोनविंशस्सर्गः ।

स वानरमहाराजश्शयानश्शरविक्षतः ।
प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥ 1 ॥

अश्मभिः प्रविभिन्नांगः पादपैराहतो भृशम् ।
रामबाणेन चाक्रांतो जीवितांते मुमोह सः ॥ 2 ॥

तं भार्या बाणमोक्षेण रामदत्तेन संयुगे ।
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ 3 ॥

सा सपुत्राप्रियं श्रुत्वा वधं भर्तुस्सुदारुणम् ।
निष्पपात भृशं तस्माद्विविधा गिरिगह्वरात् ॥ 4 ॥

ये त्वंगदपरीवारा वानरा भीमविक्रमाः ।
ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥ 5 ॥

सा ददर्श ततस्त्रस्तान्हरीनापततो भृशम् ।
यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् ॥ 6 ॥

तानुवाच समासाद्य दुःखितांदुखिता सती ।
रामवित्रासितान्सर्वाननुबद्धानिवेषुभिः ॥ 7 ॥

वानराः राजसिंहस्य यस्य यूयं पुरस्सराः ।
तं विहाय सुसंत्रस्ताः कस्माद्द्रवथ दुर्गताः ॥ 8 ॥

राज्यहेतोस्स चेद्भ्राता भ्रात्रा रौद्रेण पातितः ।
रामेण प्रहितैरौद्रैर्मार्गणैर्दूरपातिभिः ॥ 9 ॥

कपिपत्न्या वचश्श्रुत्वा कपयः कामरूपिणः ।
प्राप्तकालमविक्लिष्टमूचुर्वचनमंगनाम् ॥ 10 ॥

जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चांगदम् ।
अंतको रामरूपेण हत्वा नयति वालिनम् ॥ 11 ॥

क्षिप्तान् वृक्षान्समाविध्य विपुलाश्च शिलास्तथा ।
वाली वज्रसमैर्बाणै रामेण विनिपातितः ॥ 12 ॥

अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् ।
अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ॥ 13 ॥

रक्ष्यतां नगरद्वारमंगदश्चाभिषिच्यताम् ।
पदस्थं वालिनः पुत्रं भजिष्यंति प्लवंगमाः ॥ 14 ॥

अथवाऽरुचितं स्थानमिह ते रुचिरानने ।
आविशंति हि दुर्गाणि क्षिप्रमन्यानि वानराः ॥ 15 ॥

अभार्याश्च सभार्याश्च संत्यत्र वनचारिणः ।
लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम् ॥ 16 ॥

अल्पांतरगतानां तु श्रुत्वा वचनमंगना ।
आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥ 17 ॥

पुत्रेण मम किं कार्यं राज्येनच किमात्मना ।
कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति ॥ 18 ॥

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ।
योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥ 19 ॥

एवमुक्त्वा प्रदुद्राव रुदंती शोककर्शिता ।
शिरश्चोरश्च बाहुभ्यां दुःखेन समभिध्नती ॥ 20 ॥

आव्रजंती ददर्शाथ पतिं निपतितं भुवि ।
हंतारं दानवेंद्राणां समरेष्वनिवर्तिनम् ॥ 21 ॥

क्षेप्तारं पर्वतेंद्राणां वज्राणामिव वासवम् ।
महावातसमाविष्टं महामेघौघनिस्स्वनम् ॥ 22 ॥

क्रतुल्यपराक्रांतं वृष्टवेवोपरतं घनम् ।
नर्दंतं नर्दतां भीमं शूरं शूरेण पातितम् ॥ 23 ॥

शार्दूलेनामिषस्यार्थे मृगराजं यथाहतम् ।
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥ 24 ॥

नागहेतोस्सुपर्णेन चैत्यमुन्मथितं यथा ।
अवष्टभ्य च तिष्ठंतं ददर्श धनुरुत्तम् ॥ 25 ॥

रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ।
तावतीत्य समासाद्य भर्तारं निहतं रणे ॥ 26 ॥

समीक्ष्य व्यथिता भूमौ संभ्रांता निपपात ह ।
सुप्त्वेव पुनरुत्थाय आर्यपुत्रेति शोचती ॥ 27 ॥

रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः ।
तामवेक्ष्य तु सुग्रीवः क्रोशंतीं कुररीमिव ।
विषादमगमत्कष्टं दृष्ट्वा चांगदमागतम् ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकोनविंशस्सर्गः ॥




Browse Related Categories: