श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षडधिकशततमस्सर्गः ।
सतुमोहात्सुसंक्रुद्धःकृतांतबलचोदितः ।
क्रोधसंरक्तनयनोरावणंसूतमब्रवीत् ॥ 1 ॥
हीनवीर्यमिवाशक्तंपौरुषेणविवर्जितम् ।
भीरुंलघुमिवासत्त्वंविहीनमिवतेजसा ॥ 2 ॥
विमुक्तमिवमायाभिरस्त्रैरिवबहिष्कृतम् ।
मामवज्ञायदुर्बुद्धेस्वयाबुद्ध्याविचेष्टसे ॥ 3 ॥
किमर्थंमामवज्ञायमच्छंदमनवेक्ष्य च ।
त्वयाशत्रुसमक्षंमेरथोऽयमपवाहितः ॥ 4 ॥
त्वयाद्यहिममानार्य चिरकालसमार्जितम् ।
यशोवीर्यं च तेजश्चप्रत्ययश्चविनाशितः ॥ 5 ॥
प्रख्यातवीर्यस्यरंजनीयस्यविक्रमैः ।
पश्यतोयुद्धलुब्धोऽहंकृतंकापुरुषस्त्वया ॥ 6 ॥
यस्त्वंरथमिदंमोहान्नचेद्वहसिदुर्मते ।
सत्योऽप्रतितर्कोमेपरेणत्वमुपस्कृतः ॥ 7 ॥
न हितद्विद्यतेकर्मसुहृदोहितकांक्षिणः ।
रिपूणांसदृशंत्वेतद्यतत्त्वयैतदनुष्ठितम् ॥ 8 ॥
निवर्तयरथंशीघ्रंयावन्नापैतिमेरिपुः ।
यदिवाध्युषितोऽसित्वंस्मर्यतेयदिमेगुणः ॥ 9 ॥
एवंपुरुषमुक्तस्तुहितबुद्धिबुद्धिना ।
अब्रवीद्रावणंसूतोहितंसानुनयंवचः ॥ 10 ॥
न भीतोऽस्मि न मूढोऽस्मिनोपजप्तोऽस्मिशत्रुभिः ।
न प्रमत्तो न निःस्नेहोविस्मृता न च सत्क्रिया ॥ 11 ॥
मयातुहितकामेवयशश्चपरिरक्षता ।
स्नेहप्रसन्नमनसाहितमित्यप्रियंकृतम् ॥ 12 ॥
नास्मिन्नर्थेमहाराज त्वंमांप्रियहितेरतम् ।
कश्चिल्लघुरिवानार्योदोषतोगंतुमर्हसि ॥ 13 ॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः ।
प्रचोदयामास रथन् सुरसारथिसत्तमः ॥ 14 ॥
श्रमंतवावगच्छामिमहतारणकर्मणा ।
न हितेवीर्यसौमुख्यंप्रकर्षंवोपधारये ॥ 15 ॥
रथोद्वहनखिन्नाश्चभग्नामेरथवाजिनः ।
दीनाघर्मपरिश्रांतागावोवर्षहताइव ॥ 16 ॥
निमित्तानि च भूयिष्ठंयानिप्रादुर्भवंतिनः ।
तेषुतेष्वभिपन्नेषुलक्ष्याम्यप्रदक्षिणम् ॥ 17 ॥
देशकालौ च विज्ञेयौलक्षणानींगितानि च ।
दैन्यंहर्षश्चखेदश्चरथिनश्चबलाबलम् ॥ 18 ॥
स्थलनिम्नानिभूमेश्चसमानिविषमाणि च ।
युद्धकालश्चविज्ञेयःपरस्यांतरदर्शनम् ॥ 19 ॥
उपयानापयाने च स्थानंप्रत्यपसर्पणम् ।
सर्वमेतद्रथस्थेनज्ञेयंरथकुटुंभिना ॥ 20 ॥
तवविश्रामहेतोस्तुतथैषांरथवाजिनाम् ।
रौद्रंवर्जयताखेदंक्षमंकृतमिदंमया ॥ 21 ॥
स्वेच्छयान मयावीररथोऽयमपवाहितः ।
भर्तृस्नेहपरीतेनमयेदंयत्कृतंप्रभो ॥ 22 ॥
आज्ञापययथातत्त्वंवक्ष्यस्यरिनिषूदन ।
तत्करिष्याम्यहंवीरगतानृण्येनचेतसा ॥ 23 ॥
संतुष्टस्तेनवाक्येनरावणस्तस्यसारथेः ।
प्रशस्यैनंबहुविधंयुद्धलुब्धोऽब्रवीदिदम् ॥ 24 ॥
रथंशीघ्रमिदंसूतराघवाभिमुखंनय ।
नाहत्वासमरेशत्रून्निवर्तिष्यतिरावणः ॥ 25 ॥
एवमुक्त्वाततस्तुष्टोरावणोराक्षसेश्वरः ।
ददौतस्यशुभंह्येकंहस्ताभरणमुत्तमम् ॥ 26 ॥
श्रुत्वारावणवाक्यानिसारथिस्सन्यवर्तत ।
ततोद्रुतंरावणवाक्यचोदितःप्रचोदयामासहयान्ससारथिः ।
स राक्षसेंद्रस्य ततो महारथःक्षणेनरामस्यरथाग्रतोऽभवत् ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षडधिकशततमस्सर्गः ॥