View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.63 सुंदरकांड - त्रिषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ त्रिषष्टितमस्सर्गः ।

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ 1 ॥

उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम ।
अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ॥ 2 ॥

स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ 3 ॥

नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।
वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ॥ 4 ॥

एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।
मधून्यचिंतयित्वेमान् भक्षयंति पिबंति च ॥ 5 ॥

शिष्टमत्रापविध्यंति भक्षयंति तथापरे ।
निवार्यमाणास्ते सर्वे भ्रुवो वै दर्शयंति हि ॥ 6 ॥

इमे हि संरब्धतरास्तथा तैस्संप्रधर्षिताः ।
वारयंतो वनात्तस्मात्क्रुद्धैर्वानरपुंगवैः ॥ 7 ॥

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ ।
संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ॥ 8 ॥

पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः ।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ॥ 9 ॥

एवमेते हताश्शूरास्त्वयि तिष्ठति भर्तरि ।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ 10 ॥

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।
अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ 11 ॥

किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ 12 ॥

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 13 ॥

आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।
अंगदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ॥ 14 ॥

विचित्य दक्षिणामाशामागतैर्हरिपुंगवैः ।
नैषामकृत्यानामीदृशस्स्यादुपक्रमः ॥ 15 ॥

आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ॥ 16 ॥

वनं यदाऽभिपन्नास्ते साधितं कर्म वानरैः ।
दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ 17 ॥

न ह्यन्यस्साधने हेतुः कर्मणोऽस्य हनूमतः ।
कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुंगवे ॥ 18 ॥

व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।
जांबवान्यत्र नेता स्यादंगदश्च महाबलः ॥ 19 ॥

हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।
अंगदप्रमुखैर्वीरैर्हतं मधुवनं किल ॥ 20 ॥

वारयंतश्च सहितास्तदा जानुभिराहताः ।
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ॥ 21 ॥

नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ॥ 22 ॥

अभिगम्य तथा सर्वे पिबंति मधु वानराः ।
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ॥ 23 ॥

वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।
ततः प्रहृष्टो धर्मात्मा लक्ष्मणस्सह राघवः ॥ 24 ॥

श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।
प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥ 25 ॥

श्रुत्वा दधिमुखस्येदं सुग्रीवस्संप्रहृष्य च ।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ 26 ॥

प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः ।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ 27 ॥

इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मृगराजदर्पान् ।
द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ 28 ॥

प्रीतिस्फीताक्षौ संप्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।
अंगैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्रं ननंद ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे त्रिषष्टितमस्सर्गः ॥




Browse Related Categories: