View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.12 बालकांड - द्वादश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्वादशस्सर्गः ।

ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे ।
वसंते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ 1 ॥

ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य वै ॥ 2 ॥

तथेति च स राजानमुवाच च सुसत्कृतः ।
संभारा संभ्रियंतां ते तुरगश्च विमुच्यताम् ॥ 3 ॥

ततो राजाऽब्रवीद्वाक्यं सुमंत्रं मंत्रिसत्तमम् ।
सुमंत्रावाहय क्षिप्रं ऋत्विजो ब्रह्मवादिनः ॥ 4 ॥

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ 5 ॥

ततस्सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत्स तान्विप्रान् समस्तान्वेदपारगान् ॥ 6 ॥

तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ 7 ॥

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ 8 ॥

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
ऋषिपुत्रप्रभावेन कामान्प्राप्स्यामि चाप्यहम् ॥ 9 ॥

ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम् ॥ 10 ॥

ऋष्यशृंगपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ।
संभारास्संभ्रियंतां ते तुरगश्च विमुच्यताम् ॥ 11 ॥

सर्वथा प्राप्स्यसे पुत्रांश्चत्वारोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ 12 ॥

ततः प्रीतोऽभवद्राजा श्रुत्वा तद्विजभाषितम् ।
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ 13 ॥

गुरूणां वचनाच्छीघ्रं संभारास्संभ्रियंतु मे ।
समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ 14 ॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शांतयश्चाभिवर्धंतां यथाकल्पं यथाविधि ॥ 15 ॥

शक्यः प्राप्तुमयं यज्ञस्सर्वेणापि महीक्षिता ।
नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे ॥ 16 ॥

छिद्रं हि मृगयंतेऽत्र विद्वांसो ब्रह्मराक्षसाः ।
निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ 17 ॥

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ 18 ॥

तथेति च ततस्सर्वे मंत्रिणः प्रत्यपूजयन् ।
पार्थिवेंद्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥ 19 ॥

ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम् ।
अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम् ॥ 20 ॥

गतेष्वथ द्विजाग्य्रेषु मंत्रिणस्तान्नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्वादशस्सर्गः ॥




Browse Related Categories: