श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रयोदशाधिकशततमस्सर्गः ।
तत श्शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ 1 ॥
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।
अग्रतः प्रययु स्सर्वे मंत्रिणो मंत्रपूजिताः ॥ 2 ॥
मंदाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ 3 ॥
पश्यंधातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ 4 ॥
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ 5 ॥
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात्पादौ ववंदे भरतस्तदा ॥ 6 ॥
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥ 7 ॥
एवमुक्त स्स तु ततो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः ॥ 8 ॥
स याच्यमानो गुरुणा मया च दृढविक्रमः ।
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ 9 ॥
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ 10 ॥
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ 11 ॥
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ 12 ॥
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।
पादुके ह्यधिरुह्यैते मम राज्याय वै ददौ ॥ 13 ॥
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ 14 ॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
भरद्वाजश्शुभतरं मुनिर्वाक्यमुवाच तम् ॥ 15 ॥
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ 16 ॥
अमृत स्समहाबाहुः पिता दशरथस्तव ।
यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ 17 ॥
तमृषिं तु महात्मानमुक्तवाक्यं कृतांजलिः ।
आमंत्रयितुमारेभे चरणावुपगृह्य च ॥ 18 ॥
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः ।
भरतस्तु ययौ श्रीमानयोध्यां सह मंत्रिभिः ॥ 19 ॥
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ 20 ॥
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुन स्सर्वे गंगां शुभजलां नदीम् ॥ 21 ॥
तां रम्यजलसंपूर्णां संतीर्य सहबांधवः शृंगिबेरपुरं रम्यं प्रविवेश ससैनिकः ।
शृंगिबेरपुराद्भूय स्त्वयोध्यां संददर्श ह ॥ 22 ॥
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।
भरतो दुःख संतप्त स्सारथिं चेदमब्रवीत् ॥ 23 ॥
सारथे पश्य विध्वस्ता साऽयोध्या न प्रकाशते ।
निराकारा निरानंदा दीना प्रतिहतस्वरा ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रयोदशाधिकशततमस्सर्गः ॥