View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.25 सुंदरकांड - पंचविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचविंशस्सर्गः ।

अथ तासां वदंतीनां परुषं दारुणं बहु ।
राक्षसीनामासौम्यानां रुरोद जनकात्मजा ॥ 1 ॥

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।
उवाच परमत्रस्ता भाष्पग्द्गदया गिरा ॥ 2 ॥

न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ 3 ॥

सा राक्षसीमध्यगता सीता सुरसुतोपमा ।
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ 4 ॥

वेपते स्माधिकं सीता विशंती वांगमात्मनः ।
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥ 5 ॥

सा त्वशोकस्य विपुलां शाखामालंब्य पुष्पिताम् ।
चिंतयामास शोकेन भर्तारं भग्नमानसा ॥ 6 ॥

सा स्नापयंती विपुलौ स्तनौ नेत्रजलस्रवैः ।
चिंतयंती न शोकस्य तदांतमधिगच्छति ॥ 7 ॥

सा वेपमाना पतिता प्रवाते कदली यथा ।
राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ॥ 8 ॥

तस्याः सा दीर्घविपुला वेपंत्या सीतया तदा ।
ददृशे कंपिनी वेणी व्यालीव परिसर्पती ॥ 9 ॥

सा निःश्वसंती दुःखार्ता शोकोपहतचेतना ।
आर्ता व्यसृजदश्रूणि मैथिली विललाप च ॥ 10 ॥

हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च ।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ 11 ॥

लोकप्रवादः सत्योऽयं पंडितैः समुदाहृतः ।
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ 12 ॥

यदहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ 13 ॥

एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।
समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥ 14 ॥

भर्तारं तमपश्यंती राक्षसीवशमागता ।
सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ 15 ॥

तं पद्मदलपत्राक्षं सिंहविक्रांतगामिनम् ।
धन्याः पश्यंति मे नाथं कृतज्ञं प्रियवादिनम् ॥ 16 ॥

सर्वथा तेन हीनाया रामेण विदितात्मना ।
तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ 17 ॥

कीदृशं तु महापापं मया जन्मांतरे कृतम् ।
यनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ 18 ॥

जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।
राक्षसीभिश्च रक्षंत्या रामो नासाद्यते मया ॥ 19 ॥

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।
न शक्यं यत्परित्यक्तुमात्मच्छंदेन जीवितम् ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचविंशस्सर्गः ॥




Browse Related Categories: