View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.71 बालकांड - एकसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकसप्ततितमस्सर्गः ।

एवं ब्रुवाणं जनकः प्रत्युवाच कृतांजलिः ।
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ 1 ॥

प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।
वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ 2 ॥

राजाऽभूत् त्रिषु लोकेषु विश्रुत स्स्वेन कर्मणा ।
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ 3 ॥

तस्य पुत्रोमिथिर्नाम मिथिला येन निर्मिता ।
प्रथमो जनको नाम जनकादप्युदावसुः ॥ 4 ॥

उदावसोस्तु धर्मात्मा जातो वै नंदिवर्धनः ।
नंदिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ 5 ॥

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ 6 ॥

बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् ।
महावीरस्य धृतिमान् सुधृतिस्सत्यविक्रमः ॥ 7 ॥

सुधृतेरपि धर्मात्मा दृष्टकेतुस्सुधार्मिकः ।
दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ 8 ॥

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिंधकः ।
प्रतिंधकस्य धर्मात्मा राजा कीर्तिरथस्सुतः ॥ 9 ॥

पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।
देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥ 10 ॥

महीध्रकसुतो राजा कीर्तिरातो महाबलः ।
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ 11 ॥

महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥ 12 ॥

तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ 13 ॥

मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः ।
कुशध्वजं समावेश्य भारं मयि वनं गतः ॥ 14 ॥

वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।
भ्रातरं देवसंकाशं स्नेहात्पश्यन् कुशध्वजम् ॥ 15 ॥

कस्य चित्त्वथकालस्य सांकाश्यादगमत्पुरात् ।
सुधन्वा वीर्यवान्राजा मिथिलामवरोधकः ॥ 16 ॥

स च मे प्रेषयामास शैवं धनुरनुत्तमम् ।
सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ 17 ॥

तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह ।
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ 18 ॥

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।
सांकाश्ये भ्रातरं वीरमभ्यषिंचं कुशध्वजम् ॥ 19 ॥

कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ।
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥ 20 ॥

सीतां रामाय भद्रं ते ऊर्मिला लक्ष्मणाय च ।
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ॥ 21 ॥

द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ।
ददामि परमप्रीतो वध्वौ ते रघुनंदन ॥ 22 ॥

रामलक्ष्मणयो राजन् गोदानं कारयस्व ह ।
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥ 23 ॥

मखा ह्यद्य महाबाहो तृतीये दिवसे प्रभो ।
फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकसप्ततितमस्सर्गः ॥




Browse Related Categories: