View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.73 बालकांड - त्रिसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रिसप्ततितमस्सर्गः ।

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।
तस्मिं स्तु दिवसे शूरो युधाजित्समुपेयिवान् ॥ 1 ॥

पुत्रः केकयराजस्य साक्षाद्भरतमातुलः ।
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ 2 ॥

केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् ।
येषां कुशलकामोऽसि तेषां संप्रत्यनामयम् ॥ 3 ॥

स्वस्रीयं मम राजेंद्र द्रष्टुकामो महीपतिः ।
तदर्थमुपयातोऽहमयोध्यां रघुनंदन ॥ 4 ॥

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।
मिथिलामुपयातांस्तु त्वया सह महीपते ॥ 5 ॥

त्वरयाभ्युपयातोऽहं द्रष्टुकाम स्स्वसुस्सुतम् ।
अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥ 6 ॥

दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् ।
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥ 7 ॥

प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ।
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ 8 ॥

युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः ।
भ्रातृभिस्सहितो रामः कृतकौतुकमंगलः ॥ 9 ॥

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ।
पितु स्समीपमाश्रित्य तस्थौ भ्रातृभिरावृतः ॥ 10 ॥

वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ।
राजा दशरथो राजन् कृतकौतुकमंगलैः ॥ 11 ॥

पुत्रैर्नरवर श्रेष्ठ दातारमभिकांक्षते ।
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवंति हि ॥ 12 ॥

स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ।
इत्युक्तः परमोदारो वसिष्ठेन महात्मना ॥ 13 ॥

प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ।
कस्स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते ॥ 14 ॥

स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ।
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ॥ 15 ॥

मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ।
सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ॥ 16 ॥

अविघ्नं कुरुतां राजा किमर्थमवलंबते ।
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।
प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥ 17 ॥

ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ॥ 18 ॥

कारयस्व ऋषे सर्वमृषिभिः सह धार्मिक ।
रामस्य लोकरामस्य क्रियां वैवाहिकीं विभो ॥ 19 ॥

तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ।
विश्वामित्रं पुरस्कृत्य शतानंदं च धार्मिकम् ॥ 20 ॥

प्रपामध्ये तु विधिवत्वेदिं कृत्वा महातपाः ।
अलंचकार तां वेदिं गंधपुष्पै स्समंततः ॥ 21 ॥

सुवर्णपालिकाभिश्च छिद्रकुंभैश्च सांकुरैः ।
अंकुराढ्यैश्शरावैश्च धूपपात्रै स्सधूपकैः ॥ 22 ॥

शंखपात्रै स्स्रुवै स्स्रुग्भिः पात्रैरर्घ्याभिपूरितैः ।
लाजपूर्णैश्च पात्रीभिरक्षतैरभिसंस्कृतैः ॥ 23 ॥

दर्भैस्समैस्समास्तीर्य विधिवन्मंत्रपूर्वकम् ।
अग्निमादाय वेद्यां तु विधिमंत्रपुरस्कृतम् ॥ 24 ॥

जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ।
ततस्सीतां समानीय सर्वाभरणभूषिताम् ॥ 25 ॥

समक्षमग्ने स्संस्थाप्य राघवाभिमुखे तदा ।
अब्रवीज्जनको राजा कौसल्यानंदवर्धनम् ॥ 26 ॥

इयं सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥ 27 ॥

पतिव्रता महाभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपद्राजा मंत्रपूतं जलं तदा ॥ 28 ॥

साधु साध्विति देवाना मृषीणां वदतां तदा ।
देवदुंदुभिर्निर्घोषः पुष्पवर्षो महानभूत् ॥ 29 ॥

एवं दत्त्वा तदा सीतां मंत्रोदकपुरस्कृताम् ।
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ॥ 30 ॥

लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ।
प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्ययः ॥ 31 ॥

तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।
गृहाण पाणिं मांडव्याः पाणिना रघुनंदन ॥ 32 ॥

शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ।
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥ 33 ॥

सर्वे भवंतस्सौम्याश्च सर्वे सुचरितव्रताः ।
पत्नीभिस्संतु काकुत्स्था माभूत्कालस्य पर्ययः ॥ 34 ॥

जनकस्य वच श्शृत्वा पाणीन् पाणिभिरास्पृशन् ।
चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥ 35 ॥

अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।
ऋषींश्चैव महात्मानस्सभार्या रघुसत्तमाः ॥ 36 ॥

यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ।
काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु ॥ 37 ॥

पुष्पवृष्टिर्महत्यासीदंतरिक्षात्सुभास्वरा ।
दिव्यदुंदुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥ 38 ॥

ननृतुश्चाप्सरस्संघा गंधर्वाश्च जगुः कलम् ।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ 39 ॥

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्यां महौजसः ॥ 40 ॥

अथोपकार्यां जग्मुस्ते सभार्या रघुनंदनाः ।
राजाऽप्यनुययौ पश्यंत्सर्षिसंघ स्सबांधवः ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रिसप्ततितमस्सर्गः ॥




Browse Related Categories: