View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.28 सुंदरकांड - अष्टाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ अष्टाविंशस्सर्गः ।

सा राक्षसेंद्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ।
सीता वितत्रास यथा वनांते सिंहाभिपन्ना गजराजकन्या ॥ 1 ॥

सा राक्षसीमध्यगता च भीरु र्वाग्भिर्भृशं रावणतर्जिता च ।
कांतारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ 2 ॥

सत्यं बतेदं प्रवदंति लोके नाकालमृत्युर्भवतीति संतः ।
यत्राहमेवं परिभर्त्स्यमाना जीवामि दीना क्षणमप्यपुण्या ॥ 3 ॥

सुखाद्विहीनं बहुदुःखपूर्ण मिदं तु नूनं हृदयं स्थिरं मे ।
विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृंगमिवाचलस्य ॥ 4 ॥

नैवास्ति दोषो मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य ।
भावं न चास्याहमनुप्रदातु मलं द्विजो मंत्रमिवाद्विजाय ॥ 5 ॥

नूनं ममांगान्यचिरादनार्यः शस्त्रैश्शितैश्छेत्स्यति राक्षसेंद्रः ।
तस्मिननागच्छति लोकनाथे गर्भस्थजंतोरिव शल्यकृंतः ॥ 6 ॥

दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ।
बद्धस्य वध्यस्य तथा निशांते राजापराधादिव तस्करस्य ॥ 7 ॥

हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या ।
एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता ॥ 8 ॥

तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेंद्रपुत्रौ ।
नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥ 9 ॥

नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ।
यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ 10 ॥

हा राम सत्यव्रत दीर्घबाहो हा पूर्णचंद्रप्रतिमानवक्त्र ।
हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ॥ 11 ॥

अनन्य दैवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे ।
पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥ 12 ॥

मोघो हि धर्मश्चरितो मयायं तथैकपत्नीत्वामिदं निरर्थम् ।
या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा ॥ 13 ॥

पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ॥ 14 ॥

अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ।
मोघं चरित्वाथ तपो व्रतंच त्यक्ष्यामि धिग्जीवितमल्पभाग्याम् ॥ 15 ॥

सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।
विषस्य दाता न हि मेऽस्ति कश्चि च्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ 16 ॥

इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरंती ।
प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ॥ 17 ॥

सा शोकतप्ता बहुधा विचिंत्य सीताऽथ वेण्युद्ग्रथनं गृहीत्वा ।
उद्बुध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ॥ 18 ॥

उपस्थिता सा मृदुसर्वगात्री शाखां गृहत्वाऽध नगस्य तस्य ।
तस्यास्तु रामं प्रविचिंतयंत्या रामानुजं स्वं च कुलं शुभांग्याः ॥ 19 ॥

शेकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ।
प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे अष्टाविंशस्सर्गः ॥




Browse Related Categories: