View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.128 युद्धकांड - अष्टाविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टाविंशत्यधिकशततमस्सर्गः ।

अयोध्यांतुसमालोक्यचिंतयामासराघवः ।
प्रियकामःप्रियंरामस्ततस्त्वरितविक्रमः ॥ 1 ॥

चिंतयित्वाततोदृष्टिंवानरेषुन्यपातयत् ।
उवाचधीमांस्तेजस्वीहनूमंतंप्लवंगमम् ॥ 2 ॥

अयोध्यांत्वरितोगत्वाशीघ्रंप्लवगसत्तम ।
जानीहिकछचित्कुशलीजनोनृपतिमंदिरे ॥ 3 ॥

शृंगबेरिपुरंप्राप्यगुहंगहनगोचरम् ।
निषादाधिपतिंब्रूहिकुशलंवचनान्मम ॥ 4 ॥

श्रुत्वातुमांकुशलिनमरोगंविगतज्वरम् ।
भविष्यतिगुहःप्रीतस्सममात्मसमस्सखा ॥ 5 ॥

अयोध्यायाश्चतेमार्गंप्रवृत्तिंभरतस्य च ।
निवेदयिष्यतिप्रीतोनिषादाधिपतिर्गुहः ॥ 6 ॥

भरतस्तुत्वयावाच्यःकुशलंवचनान्मम ।
सिद्धार्थंशंसमांतस्मैसभार्यंसहलक्ष्मणम् ॥ 7 ॥

हरणंचापिवैदेह्यारावणेनबलीयसा ।
सुग्रीवेण च सम्वादंवालिनश्चवधंरणे ॥ 8 ॥

मैथिल्यन्वेषणंचैवयथाचाधिगतात्वया ।
लंघयित्वामहातोयमापगापतिमव्ययम् ॥ 9 ॥

उपयानंसमुद्रस्यसागरस्य च दर्शनम् ।
यथा च कारितस्सेतूरावणश्चयथाहतः ॥ 10 ॥

वरदानंमहेंद्रेणब्रह्मणावरुणेन च ।
महादेवप्रसादाच्छपित्राममसमागमम् ॥ 11 ॥

उपयातं च मांसौम्य भरतायनिवेदय ।
सहराक्षसराजेनहरीणामीश्वरेण च ॥ 12 ॥

जित्वाशत्रुगणान्रामःप्राप्यचानुत्तमंयशः ।
उपायानंसमृद्धार्थस्सहमित्रैर्महाबलैः ॥ 13 ॥

एतच्छ्रुत्वायमाकारंभजतेभरतस्ततः ।
स च तेवेदितव्यःस्यात्सर्वंयच्छापिमांप्रति ॥ 14 ॥

ज्ञेयाःसर्वे च वृत्तांताःभरतस्येंगितानि च ।
तत्त्वेनमुखवर्णेनदृष्ट्याव्याभाषितेन च ॥ 15 ॥

सर्वकालसमृद्धंहिहस्त्यश्वरथसंकुलम् ।
पितृपैतामहंराज्यंकस्यनावर्तयेन्मनः ॥ 16 ॥

संगत्याभरत्श्रीमान् राज्येनार्थीस्वयंभवेत् ।
प्रशास्तुवसुधांसर्वामखिलांरघुनंदनः ॥ 17 ॥

तस्यबुद्धिं च विज्ञायव्यवसायं च वानर ।
यावन्नदूरंयाताःस्मक्षिप्रमागंतुमर्हसि ॥ 18 ॥

इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः ।
मानुषःधारयनृपमयोध्यांत्वरितोययौ ॥ 19 ॥

अतोत्पपातवेगेनहनूमान्मारुतात्मजः ।
गरुत्मानिववेगेनजिघृक्षन्पन्नगोत्तमम् ॥ 20 ॥

लंघयित्वापितृपथंविहगेंद्रालयंशुभम् ।
गंगायमुनयोर्भीमंसमतीत्यसमागमम् ॥ 21 ॥

शृंगबेरपुरंप्राप्यगुहमासाद्यवीर्यवान् ।
स वाचाशुभयाहृष्टोहनुमानिदमब्रवीत् ॥ 22 ॥

सखातुतवकाकुत्स्थोरामस्सत्यपराक्रमः ।
ससीतस्सहसौमित्रिस्सत्वांकुशलमब्रवीत् ॥ 23 ॥

पंचमीमद्यरजनीमुषित्वावचनान्मुनेः ।
भरद्वाजाभ्यनुज्ञातंद्रक्ष्यस्यद्यैवराघवम् ॥ 24 ॥

एवमुक्त्वामहातेजास्संप्रहृष्टतनूरुहः ।
उत्पपातमहावेगाद्वेगवान्विचारयन् ॥ 25 ॥

सोऽपश्यद्रामतीर्थं च नदींवालुकिनींतथा ।
वरूथींगोमतींचैवभीमंशालवनंतथा ॥ 26 ॥

प्रजाश्चबहुसाहस्रीःस्फीतान्जनपदानपि ।
सःगत्वादूरमध्वानंत्वरितःकपिकुंजरः ॥ 27 ॥

आससादद्रुमान् फुल्लान्नंदिग्रामसमीपगान् ।
स्त्रीभिस्सपुत्रैर्वृद्धैश्चरममाणैःस्वलंकृतैः ।
सुराधिपस्योपवनेयथाचैत्ररथेद्रुमान् ॥ 28 ॥

क्रोशमात्रेत्वयोध्यायाचशीरकृष्णाजिनंबरम् ॥ 29 ॥

ददर्शभरतंदीनंकृशमाश्रमवासिनम् ।
जटिलंमलदिग्धांगंभ्रातृव्यसनकर्शितम् ॥ 30 ॥

फलमूलाशिनंदांतंतापसंधर्मचारिणम् ।
समुन्नतजटाभारंवल्कलाजिनवाससम् ॥ 31 ॥

नियतंभावितात्मानंब्रह्मर्षिसमतेजसम् ।
पादुकेतेपुरस्कृत्यप्रशासंतंवसुंधराम् ॥ 32 ॥

चातुर्वर्णस्यलोकस्यत्रातारंमहतोभयात् ।
उपस्थितममात्यैश्चशुचिभिश्चपुरोहितैः ॥ 33 ॥

बलमुख्यैश्चयुक्तैश्चकाषायांबरदारिभिः ।
नहितेराजपुत्रंतंचीरकृष्णाजिनांबरम् ॥ 34 ॥

परिभोक्तुंव्यवस्यंतिपौरावैधर्मवत्सलाः ।
तम्धर्ममिवधर्मज्ञंदेहवंतमिवापरम् ॥ 35 ॥

उवाचप्रांजलिर्वाक्यंहनूमान्मारुतात्मजः ।
वसंतंदंडकारण्येयंत्वंचीरजटाधरम् ॥ 36 ॥

अनुशोचसिकाकुत्स्थं स त्वांकौशलमब्रवीत् ।
प्रियमाख्यामितेदेवशोकंत्यजसुदारुणम् ॥ 37 ॥

अस्मिन्मुहूर्तेभ्रात्रात्वंरामेणसहसंगतः ।
निहत्यरावणंरामःप्रतिलभ्य च मैथिलीम् ॥ 38 ॥

उपयातिसमृद्धार्थःसहमित्रैर्महाबलैः ।
लक्ष्मणश्चमहातेजावैदेही च यशस्विनी ॥ 39 ॥

सीतासमग्रारामेणमहेंद्रेणशचीयथा ।
एवमुक्तोहनुमताभरतःकैकयीसुतः ॥ 40 ॥

पपातसहसाहृष्टोहर्षान्मोहमुपागमत् ।
ततोमुहूर्तादुत्थायप्रत्याश्वस्य च राघवः ॥ 41 ॥

हनूमंतमुवाचेदंभरतःप्रियवादिनम् ।
अशोकजैःप्रीतिमयैःकपिमालिंग्यसंभ्रमात् ॥ 42 ॥

सिषेचभरतःश्रीमान्विपुलैरश्रुबिंधुभिः ।
देवोवामानुषोवात्वमनुक्रोशादिहागतः ॥ 43 ॥

प्रियाख्यानस्यतेसौम्यददामिब्रुवतःप्रियम् ।
गवांशतसहस्रं च ग्रामाणां च शतंपरम् ॥ 44 ॥

सकुंडलाश्शुभाचाराभार्याःकन्यास्तुषोडश ।
हेमवर्णास्सुनासोरूश्शशिसौम्याननाःस्त्रियः ॥ 45 ॥

सर्वाभरणसंपन्नास्संपन्नाःकुलजातिभिः ।
निशम्यरामागमनंनृपात्मजःकपिप्रवीरस्यतदाद्भुतोपमम् ।
प्रहर्षितोरामदिदृक्ष्याऽभवत्पुनश्चहर्षादिदमब्रवीद्वचः ॥ 46 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टाविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: