View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.118 अयोध्याकांड - अष्टादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टादशाधिकशततमस्सर्गः ।

सात्वेवमुक्ता वैदेही अनसूयाऽनसूयया ।
प्रतिपूज्य वचो मंदं प्रवक्तुमुपचक्रमे ॥ 1 ॥

नैतदाश्चर्यमार्याया यन्मां त्वमभिभाषसे ।
विदितंतु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥ 2 ॥

यद्यप्येष भवेद्भर्ता ममाऽर्ये वृत्तवर्जितः ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ 3 ॥

किं पुनर्यो गुणश्लाघ्य स्सानुक्रोशो जितेंद्रियः ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ 4 ॥

यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः ।
तामेव नृपनारीणामन्यासामपि वर्तते ॥ 5 ॥

सकृद्दृष्टास्वपि स्त्रिषु नृपेण नृपवत्सलः ।
मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥ 6 ॥

आगच्छंत्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ 7 ॥

पाणिप्रदानकाले च यत्पुरात्वग्नि सन्निधौ ।
अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥ 8 ॥

नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥ 9 ॥

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ 10 ॥

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विनाचंद्रं मुहूर्तमपि दृश्यते ॥ 11 ॥

एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयंते पुण्येन स्वेन कर्मणा ॥ 12 ॥

ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयंत्युत ॥ 13 ॥

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छंदये त्वां शुचिव्रते ॥ 14 ॥

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ 15 ॥

तस्यास्तद् वचनं श्रूत्वा विस्मिता मंदविस्मया ।
कृतमित्यब्रवीत् सीता तपोबलसमन्विताम् ॥ 16 ॥

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् ।
सफलं च प्रहर्षं ते हंत सीते करोम्यहम् ॥ 17 ॥

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अंगरागं च वैदेहि महार्हं चानुलेपनम् ॥ 18 ॥

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ 19 ॥

अंगरागेण दिव्येन लिप्तांगी जनकात्मजे ।
शोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥ 20 ॥

सा वस्त्रमंगरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ 21 ॥

प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी ।
श्लिष्टांजलिपुटा तत्र समुपास्त तपोधनाम् ॥ 22 ॥

तथा सीतामुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे कांचित्प्रियकथामनु ॥ 23 ॥

स्वयं वरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सिते कथा श्रुतिमुपागता ॥ 24 ॥

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथाऽनुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ 25 ॥

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ 26 ॥

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्रधर्मे ह्यभिरतो न्यायतश्शास्ति मेदिनीम् ॥ 27 ॥

तस्य लांगलहस्तन्य कर्षतः क्षेत्रमंडलम् ।
अहं किलोत्थिता भित्वा जगतीं नृपतेस्सुता ॥ 28 ॥

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।
पांसुकुंठितसर्वांगीं जनको विस्मितोऽभवत् ॥ 29 ॥

अनपत्येन च स्नेहादंकमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ 30 ॥

अंतरिक्षे च वागुक्ताऽप्रतिमाऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ॥ 31 ॥

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ।
अवाप्तो विपुलां बुद्धिं मामवाप्य नराधिपः ॥ 32 ॥

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया संभाविता चास्मि स्निग्धया मातृसौहृदात् ॥ 33 ॥

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिंतामभ्यगमद्धीनो वित्तनाशादिवाधनः ॥ 34 ॥

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि ॥ 35 ॥

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ।
चिंतार्णवगतः पारं नाससादाप्लवो यथा ॥ 36 ॥

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिंतयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम ॥ 37 ॥

तस्य बुद्धिरियं जाता चिंतयानस्य संततम् ।
स्वयंवरं तनूजायाः करिष्यामीति धीमतः ॥ 38 ॥

महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ 39 ॥

असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ 40 ॥

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेंद्राणां पूर्वमामंत्र्य पार्थिवान् ॥ 41 ॥

इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।
तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ 42 ॥

तच्च दृष्ट्वा धनुश्श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ 43 ॥

सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥ 44 ॥

लक्ष्मणेन सह भ्रात्रा राम स्सत्यपराक्रमः ।
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ 45 ॥

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।
सुतौ दशरथस्येमौ धनुर्दर्शकांक्षिणौ ।
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ 46 ॥

इत्युक्तस्तेन विप्रेण तद्धनुस्समुपानयत् ॥ 47 ॥

निमेषांतरमात्रेण तदाऽनम्य महाबलः ।
ज्यां समारोप्य झडिति पूरयामास वीर्यवान् ॥ 48 ॥

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दो भवद्भीमः पतितस्याशनेरिव ॥ 49 ॥

ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ 50 ॥

दीयमानां न तु तदा प्रतिजग्राह राघवः ।
अविज्ञाय पितुश्छंदमयोध्याऽधिपतेः प्रभोः ॥ 51 ॥

तत श्श्वशुरमामंत्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ 52 ॥

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ 53 ॥

एवं दत्ताऽस्मि रामाय तदा तस्मिन्स्वयंवरे ।
अनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम् ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टादशाधिकशततमस्सर्गः ॥




Browse Related Categories: