View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.62 अरण्यकांड - द्विषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्विषष्टितमस्सर्गः ।

सीतामपश्यंधर्मात्मा शोकोपहतचेतनः ।
विललाप महाबाहू रामः कमललोचनः ॥ 1 ॥

पश्यन्निव च तां सीतामपश्यन्मदनार्दितः ।
उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ॥ 2 ॥

त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये ।
आवृणोषि शरीरं ते मम शोकविवर्धिनी ॥ 3 ॥

कदलीस्कंधसदृशौ कदल्या संवृतावुभौ ।
ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम् ॥ 4 ॥

कर्णिकारवनं भद्रे हसंती देवि सेवसे ।
अलं ते परिहासेन मम बाधावहेन वै ॥ 5 ॥

परिहासेन किं सीते परिश्रांतस्य मे प्रिये ।
अयं स परिहासोऽपि साधु देवि न रोचते ॥ 6 ॥

विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते ।
अवगच्छामि ते शीलं परिहासप्रियं प्रिये ॥ 7 ॥

आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव ।
सुव्यक्तं राक्षसैस्सीता भक्षिता वा हृतापि वा ॥ 8 ॥

न हि सा विलपंतं मामुपसंप्रैति लक्ष्मण ।
एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण ॥ 9 ॥

शंसंतीव हि वैदेहीं भक्षितां रजनीचरैः ।
हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि ॥ 10 ॥

हा सकामा त्वया देवी कैकेयी सा भविष्यति ।
सीतया सह निर्यातो विना सीतामुपागतः ॥ 11 ॥

कथं नाम प्रवेक्ष्यामि शून्यमंतःपुरं पुनः ।
निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ॥ 12 ॥

कातरत्वं प्रकाशं हि सीतापनयनेन मे ।
निवृत्तवनवासश्च जनकं मिथिलाधिपम् ॥ 13 ॥

कुशलं परिपृच्छंतं कथं शक्ष्ये निरीक्षितुम् ।
विदेहराजो नूनं मां दृष्ट्वा विरहितं तया ॥ 14 ॥

सुतास्नेहेन संतप्तो मोहस्य वशमेष्यति ।
अथवा न गमिष्यामि पुरीं भरतपालिताम् ॥ 15 ॥

स्वर्गोऽपि सीतया हीनश्शून्य एव मतो मम ।
मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् ॥ 16 ॥

न त्वहं तां विना सीतां जीवेयं हि कथंचन ।
गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया ॥ 17 ॥

अनुज्ञातोऽसि रामेण पालयेति वसुंधराम् ।
अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥ 18 ॥

कौसल्या च यथान्यायमभिवाद्या ममाऽज्ञया ।
रक्षणीया प्रयत्नेन भवता सूक्तकारिणा ॥ 19 ॥

सीतायाश्च विनाशोऽयं मम चामित्रकर्शन ।
विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥ 20 ॥

इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या ।
भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्विषष्टितमस्सर्गः ॥




Browse Related Categories: