View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.6 अयोध्याकांड - षष्ठ सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षष्ठस्सर्गः ।

गते पुरोहिते रामः स्नातो नियतमानसः ।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ 1 ॥

प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा ।
महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ 2 ॥

शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।
ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ 3 ॥

वाग्यत स्सह वैदेह्या भूत्वा नियतमानसः ।
श्रीमत्यायतने विष्णो श्शिश्ये नरवरात्मजः ॥ 4 ॥

एकयामावशिष्टायां रात्र्यां प्रतिविबुद्ध्य सः ।
अलंकारविधिं कृत्स्नं कारयामास वेश्मनः ॥ 5 ॥

तत्र श्रृण्वन्सुखा वाच स्सूतमागधवंदिनाम् ।
पूर्वां सध्यामुपासीनो जजाप यतमानसः ॥ 6 ॥

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।
विमलक्षौमसंवीतो वाचयामास स द्विजान् ॥ 7 ॥

तेषां पुण्याहघोषोऽथ गंभीरमधुरस्तदा ।
अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ 8 ॥

कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
अयोध्यानिलयश्श्रुत्वा सर्वः प्रमुदितो जनः ॥ 9 ॥

ततः पौरजनस्सर्वश्श्रुत्वा रामाभिषेचनम् ।
प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ 10 ॥

सिताभ्रशिखराभेषु देवतायतनेषु च ।
चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ 11 ॥

नानापण्यसमृद्धेषु वणिजामापणेषु च ।
कुटुंबिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ 12 ॥

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ।
ध्वजा स्समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥ 13 ॥

नटनर्तकसंघानां गायकानां च गायताम् ।
मनः कर्णसुखा वाच श्शुशृवुश्च ततस्ततः ॥ 14 ॥

रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।
रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥ 15 ॥

बाला अपि क्रीडमाना गृहद्वारेषु संघशः ।
रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥ 16 ॥

कृतपुष्पोपहारश्च धूपगंधाधिवासितः ।
राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने ॥ 17 ॥

प्रकाशकरणार्थं च निशागमनशंकया ।
दीपवृक्षां स्तथा चक्रुरनु रथ्यासु सर्वशः ॥ 18 ॥

अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः ।
आकांक्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ 19 ॥

समेत्य संघशस्सर्वे चत्वरेषु सभासु च ।
कथयंतो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ 20 ॥

अहो महात्मा राजाऽयमिक्ष्वाकुकुलनंदनः ।
ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ 21 ॥

सर्वेप्यनुगृहीता स्मो यन्नो रामो महीपतिः ।
चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ 22 ॥

अनुद्धतमनाः विद्वांधर्मात्मा भ्रातृवत्सलः ।
यथा च भ्रातृषु स्निग्धस्तथाऽस्मास्वपि राघवः ॥ 23 ॥

चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।
यत्प्रसादोनभिषिक्तं तु रामं द्रक्ष्यामहे वयम् ॥ 24 ॥

एवंविधं कथयतां पौराणां शुश्रुवु स्तदा ।
दिग्भ्योपि श्रुतवृत्तांताः प्राप्ता जानपदा जनाः ॥ 25 ॥

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।
रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ 26 ॥

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥ 27 ॥

ततस्तदिंद्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः ।
समंतत स्सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षष्ठस्सर्गः ॥




Browse Related Categories: