View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.97 युद्धकांड - सप्तनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तनवतितमस्सर्गः ।

तथातैःकृत्तगात्रैस्तुदशग्रीवेणमार्गणैः ।
बभूववसुधातत्रप्रकीर्णाहरिभिस्तदा ॥ 1 ॥

रावणस्याप्रसह्यंतंशरसंपातमेकतः ।
न शेकुस्सहितुंदीप्तंपतंगाज्वलनंयथा ॥ 2 ॥

तेऽर्दितानिशितैर्बाणैःक्रोशंतोविप्रदुद्रुवुः ।
पावकार्चिस्समाविष्टादह्यमानायथागजाः ॥ 3 ॥

प्लवंगनामनीकानिमहाभ्राणीवमारुतः ।
सययौसमरेतस्मिन्विधमन्रावणश्शरैः ॥ 4 ॥

कदनंतरसाकृत्वाराक्षसेंध्रोवनौकसाम् ।
आससादततोत्वरितंयुद्धेराघवंस्तदा ॥ 5 ॥

सुग्रीवस्तान्कपींदृष्टवाभग्नान्विद्रावितान्रणे ।
गुल्मेसुषेणंनिक्षिप्यचक्रेयुद्धेऽद्भुतंमनः ॥ 6 ॥

आत्मनस्सदृशंवीरस्सतंनिक्षिप्यवानरम् ।
सुग्रीवोऽऽभिमुखश्शत्रुंप्रतस्थेपादपायुधः ॥ 7 ॥

पार्श्वतःपृष्ठतश्चास्यसर्वेयूथाधिपास्स्वयम् ।
अनुजह्रुर्महाशैलान् विविधांश्चमहाद्रुमान् ॥ 8 ॥

सनदन्युधिसुग्रीवस्स्वरेणमहतामहान् ।
पातयन्विविधांश्चान्यानंजगामोत्तमराक्षसान् ॥ 9 ॥

ममंथ च महाकायान्राक्षसान्वानरेश्वरः ।
युगांतसमयेवायुःप्रवृद्धानगमानिव ॥ 10 ॥

राक्षसानामनीकेषुशैलवर्षंववर्ष ह ।
अश्मवर्षंयथामेघःपक्षिसंघेषुकानने ॥ 11 ॥

कपिराजविमुक्तैस्तैश्शैलवर्षैस्तुराक्षसाः ।
विकीर्णशिरसःपेतुर्निकृत्ताइवपर्वताः ॥ 12 ॥

अथसंक्षीयमाणेषुराक्षसेषुसमंततः ।
सुग्रीवेणप्रभग्नेषुपतत्सुनिनदत्सु च ॥ 13 ॥

विरूपाक्षस्स्वकंनामधन्वीविश्राव्यराक्षसः ।
रथादाप्लुत्यदुर्धर्षोगजस्कंधमुपारुहत् ॥ 14 ॥

स तंद्विरदमारुह्यविरूपाक्षोमहारथः ।
वनर्दभनीमनिर्ह्रादंवानरानभ्यधावत ॥ 15 ॥

सुग्रीवे स शरान्घोरान्विससर्जचमूमुखे ।
स्थापयामासचोद्विग्नान्राक्षसान् संप्रहर्षयन् ॥ 16 ॥

सतुविद्धश्शितैर्बाणैःकपींद्रस्तेनरक्षसा ।
चुक्रोध स महाक्रोधोवधेचास्यमनोदधे ॥ 17 ॥

ततःपादपमुद्धृत्यशूरस्संप्रधनोहरिः ।
अभिपत्यजघानास्यप्रमुखेतुमहागजम् ॥ 18 ॥

स तुप्रहाराभिहतस्सुग्रीवेणमहागजः ।
अपासर्पद्धनुर्मात्रंनिषसादननाद च ॥ 19 ॥

गजात्तुमथितात्तूर्णमपक्रम्य स वीर्यवान् ।
राक्षसोऽऽभिमुखश्शत्रुंप्रत्युद्गम्यततःकपिम् ॥ 20 ॥

आर्षभंचर्मखडगं च प्रगृह्यलघुविक्रमः ।
भर्त्सयन्निवसुग्रीवमाससादव्यवस्थितम् ॥ 21 ॥

स हितस्याभिसंकृद्धःप्रगृह्यविपुलांशिलाम् ।
विरूपाक्षायचिक्षेपसुग्रीवोजलदोपमाम् ॥ 22 ॥

स तांशिलामापतंतींदृष्टवाराक्षसपुंगवः ।
अपक्रम्यसुविक्रांतःखडगेनप्राहरत्तदा ॥ 23 ॥

ततो भिन्नप्रहरणौ मुष्टिभ्यान् तौ समीयतुः ।
तेजो बलसमाविष्टौ दीप्ताविव हुताशनौ ॥ 24 ॥

स तदा स हसोत्पत्यराक्षसस्यमहाहवे ।
मुष्टिंसन्वर्त्यवेगेनपातयामासवक्षसि ॥ 25 ॥

मुष्टिप्रहाराभिहतोविरूपाक्षोनिशाचरः ।
तेनखडगेनसंकृद्दस्सुग्रीवस्यचमूमुखे ॥ 26 ॥

कवचंपातयामासपद्भ्यामभिहतोऽऽपतत् ।
स समुत्थायपतितःकपिस्तस्यव्यसर्जयत् ।
तलप्रहारमशनेस्समानंभीमनिस्स्वनम् ॥ 27 ॥

तलप्रहारंतद्रक्षस्सुग्रीवेणसमुद्यतम् ।
नैपुण्यान्मोचयित्वैनंमुष्टिनोरस्यताडयत् ॥ 28 ॥

तस्सुसंकृद्धतरःसुग्रीवोवानरेश्वरः ॥ 29 ॥

मोक्षितंचात्मनोदृष्टवाप्रहारंतेनरक्षसा ।
ददर्शांतरंतस्यविरूपाक्षस्यवानरः ॥ 30 ॥

ततोन्यपातयत्क्रोधाच्छंखदेशेमहात्तलम् ।
महेंद्राशनिकल्पेनतलेनाभिहतःक्षितौ ॥ 31 ॥

पपातरुधिरक्लिन्नश्शोणितंसमुद्यमन् ।
स्रोतोभ्यस्तुविरूपाक्षोजलंप्रस्रवणादिव ॥ 32 ॥

विवृत्तनयनंक्रोधात्सफेनंरुधिराप्लुतम् ।
ददृशुस्तेविरूपाक्षंविरूपाक्षतरंकृतम् ॥ 33 ॥

स्फुरंतंपरिवर्तंतंपार्श्वेनरुधिरोक्षितम् ।
करुणं च विनर्दंतंददृशुःकपयोरिपुम् ॥ 34 ॥

तथातुतौसंम्यतिसंप्रयुक्तौ ।
तरस्विनौवानरराक्षसानाम् ॥ 35 ॥

विनाशितंप्रेक्ष्यविरूपनेत्रंमहाबलंतंहरिपार्थिवेन ।
बलंसमस्तंकपिराक्षसानामुन्मत्तगंगाप्रतिमंबभूव ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तनवतितमस्सर्गः ॥




Browse Related Categories: