View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.63 अयोध्याकांड - त्रिषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रिषष्टितमस्सर्गः ।

प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः ।
अथ राजा दशरथस्सचिंतामभ्यपद्यत ॥ 1 ॥

रामलक्ष्मणयोश्चैव विवासा द्वासवोपमम् ।
आविवेशोपसर्गस्तं तम स्सूर्यमिवासुरम् ॥ 2 ॥

सभार्ये निर्गते रामे कौसल्यां कोशलेश्वरः ।
विवक्षुरसितापांगां स्मृत्वा दुष्कृतमात्मनः ॥ 3 ॥

स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम् ।
अर्धरात्रे दशरथ स्संस्मरन् दुष्कृतं कृतम् ॥ 4 ॥

स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः ।
कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ 5 ॥

यदाचरति कल्याणि शुभं वा यदि वाऽशुभम् ।
तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥ 6 ॥

गुरुलाघवमर्थानामारंभे कर्मणां फलम् ।
दोषं वा यो न जानाति न बाल इति होच्यते ॥ 7 ॥

कश्चिदाम्रवणं छित्त्वा पलाशां श्च निषिंचति ।
पुष्पं दृष्ट्वा फले गृध्नु स्स शोचति फलागमे ॥ 8 ॥

अविज्ञाय फलं यो हि कर्म त्वेवानुधावति ।
स शोचेत्फलवेलायां यथा किंशुकसेचकः ॥ 9 ॥

सोऽहमाम्रवणं छित्वा पलाशांश्च न्यषेचयम् ।
रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ 10 ॥

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारश्शब्दवेधीति मया पापमिदं कृतम् ॥ 11 ॥

तदिदं मेऽनुसंंप्राप्तं देवि दुःखं स्वयं कृतम् ।
सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम् ॥ 12 ॥

यथान्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत् ।
एवं ममाऽप्यविज्ञातं शब्दवेध्यमयं फलम् ॥ 13 ॥

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ।
ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी ॥ 14 ॥

उपास्य च रसान्भौमां स्तप्त्वा च जगदंशुभिः ।
परेताचरितां भीमां रविराविशते दिशम् ॥ 15 ॥

उष्णमंतर्दधे सद्य स्स्निग्धा ददृशिरे घनाः ।
ततो जहृषिरे सर्वे भेकसारंगबर्हिणः ॥ 16 ॥

क्लिन्न पक्षोत्तरास्स्नाताः कृच्छ्रादिव पतत्रिणः ।
वृष्टिवातावधूताग्रान्पादपानभिपेदिरे ॥ 17 ॥

पतितेनांभसाच्छन्नः पतमानेन चासकृत् ।
आबभौ मत्तसारंगस्तोयराशिरिवाचलः ॥ 18 ॥

पांडुरारुणवर्णानि स्रोतांसि विमलान्यपि ।
सुस्रुवुर्गिरिधातुभ्यस्सभस्मानि भुजंगवत् ॥ 19 ॥

आकुलारुण तोयानि स्रोतांसि विमलान्यपि ।
उन्मार्गजलवाहिनी बभूवुर्जलदागमे ॥ 20 ॥

तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी ।
व्यायामकृतसंकल्पस्सरयूमन्वगां नदीम् ॥ 21 ॥

निपाने महिषं रात्रौ गजं वाऽभ्यागतं नदीम् ।
अन्यं वा श्वापदं कंचिज्जिघांसु रजितेंद्रियः ।
तस्मिं स्तत्राहमेकांते रात्रौ विवृतकार्मुकः ॥ 22 ॥

तत्राहं संवृतं वन्यं हतवांस्तीरमागतम् ।
अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाऽभ्युपागतम् ॥ 23 ॥

अथांधकारे त्वश्रौषं जले कुंभस्य पूर्यतः ।
अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ 24 ॥

ततोऽहं शरमुधृत्य दीप्तमाशीविषोपमम् ।
शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ॥ 25 ॥

अमुंचं निशितं बाणमहमाशीविषोपमम् ।
तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ॥ 26 ॥

हाहेति पततस्तोये बाणाभिहतमर्मणः ॥ 27 ॥

तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।
कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ 28 ॥

प्रविविक्तां नदीं रात्रावुदाहाऽरोहमागतः ।
इषुणाऽभिहतः केन कस्य वा किं कृतं मया ॥ 29 ॥

ऋषेर्हिन्यस्तदंडस्य वने वन्येन जीवतः ।
कथं नु शस्रेण वधो मद्विधस्य विधीयते ॥ 30 ॥

जटाभारधरस्यैव वल्कलाजिनवाससः ।
को वधेन ममर्थी स्यात्किंवाऽस्यापकृतं मया ॥ 31 ॥

एवं निष्फलमारब्धं केवलानर्थसंहितम् ।
न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् ॥ 32 ॥

नाहं तथाऽनु शोचामि जीवितक्षयमात्मनः ।
मातरं पितरं चोभावनुशोचामि मद्वधे ॥ 33 ॥

तदेतन्मिथुनं वृद्धं चिरकालभृतं मया ।
मयि पंचत्वमापन्ने कां वृत्तिं वर्तयिष्यति ॥ 34 ॥

वृद्धै च मतापितरावहं चैकेषुणा हता ।
केन स्मनिहता स्सर्वे सुबालेनाकृतात्मना ॥ 35 ॥

तां गिरं करुणां श्रुत्वा मम धर्मानुकांक्षिणः ।
कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि ॥ 36 ॥

तस्याहं करुणं श्रुत्वा निशि लालवतो बहु ।
संभ्रांत श्शोकवेगेन भृशमासं विचेतनः ॥ 37 ॥

तं देशमहमागम्य दीनसत्त्वस्सुदुर्मनाः ।
अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ 38 ॥

अवकीर्ण जटाभारं प्रविद्धकलशोदकम् ।
पांसुशोणितदिग्धांगं शयानं शल्यपीडितम् ॥ 39 ॥

स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् ।
इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ॥ 40 ॥

किं तवापकृतं राजन्वने निवसता मया ।
जिहीर्षुरंभो गुर्वुर्थं यदहं ताडितस्त्वया ॥ 41 ॥

एकेन खलु बाणेन मर्मण्यभिहते मयि ।
द्वावंधौ निहतौ वृद्धौ माता जनयिता च मे ॥ 42 ॥

तौ कथं दुर्बलावंधौ मत्प्रतीक्षौ पिपासितौ ।
चिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः ॥ 43 ॥

न नूनं तपसो वास्ति फलयोगश्श्रुतस्य वा ।
पिता यन्मां न जानाति शयानं पतितं भुवि ॥ 44 ॥

जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः ।
भिद्यमानमिवाशक्त स्त्रतुमन्यो नगो नगम् ॥ 45 ॥

पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्य राघव ।
न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः ॥ 46 ॥

इयमेकपदी राजन्यतो मे पितुराश्रमः ।
तं प्रसादय गत्वा त्वं न त्वां स कुपितश्शपेत् ॥ 47 ॥

विशल्यं कुरु मां राजन्मर्म मे निशितश्शरः ।
रुणद्धि मृदुसोत्सेधं तीरमंबुरयो यथा ॥ 48 ॥

सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।
इति मामविशच्चिंता तस्य शल्यापकर्षणे ॥ 49 ॥

दुःखितस्य च दीनस्य मम शोकातुरस्य च ।
लक्षयामास हृदये चिंतां मुनिसुतस्तदा ॥ 50 ॥

ताम्यमानस्स मां कृच्छ्रादुवाच परमार्तवत् ।
सीदमानो विवृत्तांगो वेष्टमानो गतः क्षयम् ॥ 51 ॥

संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् ।
ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ 52 ॥

न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा ।
शूद्रायामस्मि वैश्येन जातो जनपदाधिप ॥ 53 ॥

इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ।
तस्यत्वानम्यमानस्य तं बाणमहमुद्धरं स मामुद्वीक्ष्य संत्रस्तो जहौ प्राणांस्तपोधनः ॥ 54 ॥

जलार्द्रगात्रंतु विलप्य कृच्छ्रान्मर्मव्रणं संततमुच्छवसंतम् ।
तत स्सरय्वां तमहं शयानं समीक्ष्य भद्रेऽस्मि भृशं विषण्णः ॥ 55 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रिषष्टितमस्सर्गः ॥




Browse Related Categories: