View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.10 अरण्यकांड - दशम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ दशमस्सर्गः ।

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया ।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥ 1 ॥

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।
कुलं व्यपदिशंत्या च धर्मज्ञे जनकात्मजे ॥ 2 ॥

किंतु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।
क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥ 3 ॥

ते चार्ता दंडकारण्ये मुनयस्संशितव्रताः ।
मां सीते स्वयमागम्य शरण्याश्शरणं गताः ॥ 4 ॥

वसंतो धर्मनिरता वने मूलफलाशनाः ।
न लभंते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥ 5 ॥

काले काले च निरता नियमैर्विविधैर्वने ।
भक्ष्यंते राक्षसैर्भीमैर्नरमांसोपजीविभिः ॥ 6 ॥

ते भक्ष्यमाणा मुनयो दंडकारण्यवासिनः ।
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमा ॥ 7 ॥

मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ।
कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥ 8 ॥

प्रसीदंतु भवंतो मे ह्रीरेषा हि ममातुला ।
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ॥ 9 ॥

किं करोमीति च मया व्याहृतं द्विजसन्निधौ ।
सर्वैरेतैस्समागम्य वागियं समुदाहृता ॥ 10 ॥

राक्षसैर्दंडकारण्ये बहुभिः कामरूपिभिः ।
अर्दितास्स्म दृढं राम भवान्नस्तत्र रक्षतु ॥ 11 ॥

होमकालेषु संप्राप्ताः पर्वकालेषु चानघ ।
धर्षयंति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ 12 ॥

राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ।
गतिं मृगयमाणानां भवान्नः परमा गतिः ॥ 13 ॥

कामं तपःप्रभावेन शक्ता हंतुं निशाचरान् ।
चिरार्जितं तु नेच्छामस्तपः खंडयितुं वयम् ॥ 14 ॥

बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव ।
तेन शापं न मुंचामो भक्ष्यमाणाश्च राक्षसैः ॥ 15 ॥

तदर्ध्यमानान्रक्षोभिर्दंडकारण्यवासिभिः ।
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥ 16 ॥

मया चैतद्वचश्श्रुत्वा कार्त्स्न्येन परिपालनम् ।
ऋषीणां दंडकारण्ये संश्रुतं जनकात्मजे ॥ 17 ॥

संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् ।
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ॥ 18 ॥

अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ 19 ॥

तदवश्यं मया कार्यमृषीणां परिपालनम् ।
अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥ 20 ॥

मम स्नेहाच्च सौहार्दादिदमुक्तंत्वयाऽनघे ।
परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते ॥ 21 ॥

सदृशं चानुरूपं च कुलस्य तव चात्मनः ।
सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥ 22 ॥

इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् ।
रामो धनुष्मान्सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे दशमस्सर्गः ॥




Browse Related Categories: