View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.15 बालकांड - पंचदश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचदशस्सर्गः ।

मेथावी तु ततो ध्यात्वा स किंचिदिदमुत्तरम् ।
लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥ 1 ॥

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
अथर्वशिरसि प्रोक्तैर्मंत्रैस्सिद्धां विधानतः ॥ 2 ॥

ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् ।
जुहाव चाग्नौ तेजस्वी मंत्रदृष्टेन कर्मणा ॥ 3 ॥

ततो देवास्सगंधर्वास्सिद्धाश्च परमर्षयः ।
भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ 4 ॥

तास्समेत्य यथान्यायं तस्मिन्सदसि देवताः ।
अब्रुवन् लोककर्तारं ब्रह्माणं वचनं महत् ॥ 5 ॥

भगवंत्वत्प्रसादेन रावणो नाम राक्षसः ।
सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ 6 ॥

त्वया तस्मै वरो दत्तः प्रीतेन भगवन्पुरा ।
मानयंतश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ 7 ॥

उद्वेजयति लोकान्स्तीनुच्छ्रितांद्वेष्टि दुर्मतिः ।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ 8 ॥

ऋषीन्यक्षान्सगंधर्वानसुरान्ब्राह्मणांस्तथा ।
अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ 9 ॥

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कंपते ॥ 10 ॥

तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् ।
वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥ 11 ॥

एवमुक्तस्सुरैस्सर्वैश्चिंतयित्वा ततोऽब्रवीत् ।
हंतायं विदितस्तस्य वधोपायो दुरात्मनः ॥ 12 ॥

तेन गंधर्वयक्षाणां देवदानवरक्षसाम् ।
अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ 13 ॥

नाकीर्तयदवज्ञानात्तद्रक्षो मानुषान् प्रति ।
तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ 14 ॥

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
सर्वे महर्षयो देवाः प्रहृष्टास्तेऽभवंस्तदा ॥ 15 ॥

एतस्मिन्नंतरे विष्णुरुपयातो महाद्युतिः ।
शंखचक्रगदापाणिः पीतवासा जगत्पतिः ॥ 16 ॥

ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ।
1 तमब्रुवन्सुरास्सर्वे समभिष्टूय सन्नताः ॥ 17 ॥

त्वान्नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ।
1 राज्ञो दशरथस्य त्वमयोध्याधिपतेः प्रभोः ॥ 18 ॥

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।
18 तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥ 19 ॥

विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् ।
1 तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककंटकम् ।
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ॥ 20 ॥

स हि देवांश्च गंधर्वान्सिद्धांश्च मुनिसत्तमान् ।
राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥ 21 ॥

ऋषयश्च ततस्तेन गंधर्वाप्सरसस्तथा ।
क्रीडंतो नंदनवने क्रूरेण किल हिंसिताः ॥ 22 ॥

वधार्थं वयमायातास्तस्य वै मुनिभिस्सह ।
सिद्धगंधर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ 23 ॥

त्वं गतिः परमा देव सर्वेषां नः परंतपः ।
वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥ 24 ॥

एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुंगवः ।
पितामहपुरोगांस्तान्सर्वलोकनमस्कृतः ॥ 25 ॥

अब्रवीत्त्रिदशान्सर्वान्समेतांधर्मसंहितान् ॥ 26 ॥

भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।
सपुत्रपौत्रं सामात्यं समित्रज्ञातिबांधवम् ॥ 27 ॥

हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ।
दशवर्षसहस्राणि दशवर्षशतानि च ।
वत्स्यामि मानुषे लोके पालयन्पृथिवीमिमाम् ॥ 28 ॥

एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् ।
मानुषे चिंतयामास जन्मभूमिमथात्मनः ॥ 29 ॥

ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम् ।
पितरं रोचयामास तथा दशरथन्नृपम् ॥ 30 ॥

तदा देवर्षि गंधर्वास्सरुद्रास्साप्सरोगणाः ।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ 31 ॥

तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।
विरावणं साधुतपस्विकंटकं तपस्विनामुद्धर तं भयावहम् ॥ 32 ॥

तमेव हत्वा सबलं सबांधवं विरावणं रावणमग्य्रपौरुषम् ।
स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेंद्रगुप्तं गतदोषकल्मषम् ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचदशस्सर्गः ॥




Browse Related Categories: