View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.90 अयोध्याकांड - नवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ नवतितमस्सर्गः ।

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।
बलं सर्वमवस्थाप्य जगाम सह मंत्रिभिः ॥ 1 ॥

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ 2 ॥

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।
बलं सर्वमवस्थाप्य जगाम सह मंत्रिभिः ॥ 3 ॥

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ 4 ॥

तत स्संदर्शने तस्य भरद्वाजस्य राघवः ।
मंत्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ 5 ॥

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः ।
संचचाऽलासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥ 6 ॥

समागम्य वसिष्ठेन भरतेनाभिवादितः ।
अबुद्ध्यत महातेजास्सुतं दशरथस्य तम् ॥ 7 ॥

ताभ्यामर्घ्यं च पाद्यं च दत्वा पश्चात्फलानि च ।
आनुपूर्व्याच्छ धर्मज्ञः पप्रच्छ कुशलं कुले ॥ 8 ॥

अयोध्यायां बले कोशे मित्रेष्वपि च मंत्रिषु ।
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ 9 ॥

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।
शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ 10 ॥

तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः ।
भरतं प्रत्युवाचेदं राघवस्नेहबंधनात् ॥ 11 ॥

किमिहाऽगमने कार्यं तव राज्यं प्रशासतः ।
एतदाचक्ष्व मे सर्वं न हि मे शुद्ध्यते मनः ॥ 12 ॥

सुषुवे यममित्रघ्नं कौसल्यानऽंदवर्धनम् ।
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ 13 ॥

नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः ।
वनवासी भवेतीह समाः किल चतुर्दश ॥ 14 ॥

कच्छिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।
अकंटकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ 15 ॥

एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।
पर्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ॥ 16 ॥

हतोऽस्मि यदि मामेवं भगवानपि मन्यते ।
मत्तो न दोषमाशंके नैवं मामनुशास्तु हि ॥ 17 ॥

न चैतदिष्टं माता मे यदवोचन्मदंतरे ।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ 18 ॥

अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवंदितुम् ॥ 19 ॥

त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि ।
शंस मे भगवन्रामः क्व संप्रति महीपतिः ॥ 20 ॥

वशिष्ठादिभिः ऋत्विग्भिर्याचितो भगवांस्ततः ।
उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥ 21 ॥

त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।
गुरुवृत्तिर्दमश्चैव साधूनामनुयायिता ॥ 22 ॥

जाने चैतन्मनस्थं ते दृढीकरणमस्त्विति ।
अपृच्छं त्वां तथाऽत्यर्थं कीर्तिं समभिवर्धयन् ॥ 23 ॥

जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् ।
असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ 24 ॥

श्वस्तु गंतासि तं देशं वसाद्य सह मंत्रिभिः ।
एतन्मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ 25 ॥

ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः ।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपाऽत्मजः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे नवतितमस्सर्गः ॥




Browse Related Categories: