View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.11 सुंदरकांड - एकादश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकादशस्सर्गः ।

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।
जगाम चापरां चिंतां सीतां प्रति महाकपिः ॥ 1 ॥

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।
न भोक्तुं वाप्यलंकर्तुं न पानमुपसेवितुम् ॥ 2 ॥

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥ 3 ॥

अन्येयमिति निश्चित्य पानभूमौ चचार सः ।
क्रीडितेनापराः क्लांता गीतेन च तथाऽपराः ॥ 4 ॥

नृत्तेन चापराः क्लांताः पानविप्रहतास्तथा ।
मुरजेषु मृदंगेषु पीठिकासु च संस्थिताः ॥ 5 ॥

तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ।
अंगनानां सहस्रेण भूषितेन विभूषणैः ॥ 6 ॥

रूपसल्लापशीलेन युक्तगीतार्थभाषिणा ।
देशकालाभियुक्तेन युक्तवाक्याभिधायिना ॥ 7 ॥

रताभिरतसंसुप्तं ददर्श हरियूथपः ।
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ॥ 8 ॥

गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ।
स राक्षसेंद्रः शुशुभे ताभिः परिवृतस्स्वयम् ॥ 9 ॥

करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः ।
सर्वकामैरुपेतां च पानभूमिं महात्मनः ॥ 10 ॥

ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ।
मृगाणां महिषाणां च वराहाणां च भागशः ॥ 11 ॥

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ।
रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान् ॥ 12 ॥

ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा ।
वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् ॥ 13 ॥

शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत ।
क्रकरान्विविधान् सिद्धांश्चकोरानर्धभक्षितान् ॥ 14 ॥

महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् ।
लेह्यानुच्चावचान्पेयान् भोज्यानि विविधानि च ॥ 15 ॥

तथाऽऽम्ललवणोत्तंसैर्विविधैरागषाडबैः ।
हारनूपुरकेयूरैरपविद्धैर्महाधनैः ॥ 16 ॥

पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ।
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ 17 ॥

तत्र तत्र च विन्यस्तैः सुश्लिष्टैश्शयनासनैः ।
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ 18 ॥

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ।
मांसैः कुशलसंपृक्तैः पानभूमिगतैः पृथक् ॥ 19 ॥

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ।
शर्कराऽसवमाध्वीकपुष्पासवफलासवाः ॥ 20 ॥

वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक् ।
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ 21 ॥

हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि ।
जांबूनदमयैश्चान्यैः करकैरभिसंवृता ॥ 22 ॥

राजतेषु च कुंभेषु जांबूनदमयेषु च ।
पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह ॥ 23 ॥

सोऽपश्यच्छातकुंभानि सीधोर्मणिमयानि च ।
राजतानि च पूर्णानि भाजनानि महाकपिः ॥ 24 ॥

क्वचिदल्पावशेषाणि क्वचित्पीतानि सर्वशः ।
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ 25 ॥

क्वचिद् भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः ।
क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह ॥ 26 ॥

क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः ।
क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥ 27 ॥

शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः ।
परस्परं समाश्लिष्य काश्चित्सुप्ता वरांगनाः ॥ 28 ॥

काश्चिच्च वस्त्रमन्यस्यास्स्वपंत्याः परिधाय च ।
आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ 29 ॥

तासामुच्छवासवातेन वस्त्रं माल्यं च गात्रजम् ।
नात्यर्थं स्पंदते चित्रं प्राप्य मंदमिवानिलम् ॥ 30 ॥

चंदनस्य च शीतस्य शीधोर्मधुरसस्य च ।
विविधस्य च माल्यस्य धूपस्य विविधस्य च ॥ 31 ॥

बहुधा मारुतस्तत्र गंधं विविधमुद्वहन् ।
स्नानानां चंदनानां च धूपानां चैव मूर्छितः ॥ 32 ॥

प्रववौ सुरभिर्गंधो विमाने पुष्पके तदा ।
श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वरांगनाः ॥ 33 ॥

काश्चित् कांचनवर्णांग्यः प्रमदा राक्षसालये ।
तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् ॥ 34 ॥

पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ।
एवं सर्वमशेषेण रावणांतः पुरं कपिः ॥ 35 ॥

ददर्श सुमहातेजाः न ददर्श च जानकीम् ।
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः ॥ 36 ॥

जगाम महतीं चिंतां धर्मसाध्वसशंकितः ।
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ 37 ॥

इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ।
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ 38 ॥

अयं चात्र मया दृष्टः परदारापरिग्रहः ।
तस्य प्रादुरभूच्चिंता पुनरन्या मनस्विनः ॥ 39 ॥

निश्चितैकांतचित्तस्य कार्यनिश्चयदर्शिनी ।
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ॥ 40 ॥

न हि मे मनसः किंचिद्वैकृत्यमुपजायते ।
मनो हि हेतुः सर्वेषामिंद्रियाणां प्रवर्तने ॥ 41 ॥

शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ।
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥ 42 ॥

स्त्रियो हि स्त्रीषु दृश्यंते सदा संपरिमार्गणे ।
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते ।
न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ 43 ॥

तदिदं मार्गितं तावच्छुद्धेन मनसा मया ॥ 44 ॥

रावणांतःपुरं सर्वं दृश्यते न तु जानकी ।
देवगंधर्वकन्याश्च नागकन्याश्च वीर्यवान् ॥ 45 ॥

अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ।
तामपश्यन्कपिस्तत्र पश्यञ्श्चान्या परस्त्रियः ॥ 46 ॥

अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ।
स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः ॥ 47 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकादशस्सर्गः ॥




Browse Related Categories: