श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वाविंशस्सर्गः ।
अथ तं व्यथया दीनं सविशेषममर्षितम् ।
श्वसंतमिव नागेंद्रं रोषविस्फारितेक्षणम् ॥ 1 ॥
आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् ॥ 2 ॥
अथ तं व्यथया दीनं सविशेषममर्षितम् ।
श्वसंतमिव नागेंद्रं रोषविस्फारितेक्षणम् ॥ 3 ॥
आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् ॥ 4 ॥
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् ।
अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ 5 ॥
उपक्लृप्तं हि यत्किंचिदभिषेकार्थमद्य मे सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ॥ 6 ॥
सौमित्रे योऽभिषेकार्थे मम संभार संभ्रमः ।
अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः ॥ 7 ॥
यस्या मदभिषेकार्थे मानसं परितप्यते ।
माता मे सा यथा न स्यात्सविशंका तथा कुरु ॥ 8 ॥
तस्याश्शंकामयं दुःखं मुहूर्तमपि नोत्सहे ।
मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ 9 ॥
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन ।
मातृणां वा पितुर्वाऽहं कृतमल्पं च विप्रियम् ॥ 10 ॥
सत्यस्सत्याभिसंधश्च नित्यं सत्यपराक्रमः ।
परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ 11 ॥
तस्याऽपि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते ।
सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ 12 ॥
अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण ।
अन्वगेवाहमिच्छामि वनं गंतुमितःपुनः ॥ 13 ॥
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा ।
सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ 14 ॥
मयि चीराजिनधरे जटामंडलधारिणि ।
गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ 15 ॥
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् ।
तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम् ॥ 16 ॥
कृतांतस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।
राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ 17 ॥
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने ।
यदि भावो न दैवोऽयं कृतांतविहितो भवेत् ॥ 18 ॥
जानासि हि यथा सौम्य न मातृषु ममांतरम् ।
भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ॥ 19 ॥
सोऽभिषेकनिवृत्त्यर्थैप्रवासार्थैश्च दुर्वचैः ।
उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये ॥ 20 ॥
कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।
ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ॥ 21 ॥
यदचिंत्यंतु तद्दैवं भूतेष्वपि न विहन्यते ।
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ 22 ॥
कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ।
यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते ॥ 23 ॥
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किंचित्तथाभूतं ननु दैवस्य कर्म तत् ॥ 24 ॥
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
उत्सृज्य नियमांस्तीव्रान्भ्रश्यंते काममन्युभिः ॥ 25 ॥
असंकल्पितमेवेह यदकस्मात्प्रवर्तते ।
निवर्त्यारंभमारब्धं ननु दैवस्य कर्म तत् ॥ 26 ॥
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।
व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ 27 ॥
तस्मादपरितापस्संस्त्वमप्यनुविधाय माम् ।
प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ 28 ॥
एभिरेव घटै स्सर्वैरभिषेचनसंभृतैः ।
मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ 29 ॥
अथवा किं ममैतेन राजद्रव्यमयेन तु ।
उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ 30 ॥
मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये ।
राज्यं वा वनवासो वा वनवासो महोदयः ॥ 31 ॥
न लक्ष्मणास्मिन्खलु कर्मविघ्ने माता यवीयस्यतिशंकनीया ।
दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम् ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वाविंशस्सर्गः ॥