View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.22 अयोध्याकांड - द्वाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वाविंशस्सर्गः ।

अथ तं व्यथया दीनं सविशेषममर्षितम् ।
श्वसंतमिव नागेंद्रं रोषविस्फारितेक्षणम् ॥ 1 ॥

आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् ॥ 2 ॥

अथ तं व्यथया दीनं सविशेषममर्षितम् ।
श्वसंतमिव नागेंद्रं रोषविस्फारितेक्षणम् ॥ 3 ॥

आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् ॥ 4 ॥

निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् ।
अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ 5 ॥

उपक्लृप्तं हि यत्किंचिदभिषेकार्थमद्य मे सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ॥ 6 ॥

सौमित्रे योऽभिषेकार्थे मम संभार संभ्रमः ।
अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः ॥ 7 ॥

यस्या मदभिषेकार्थे मानसं परितप्यते ।
माता मे सा यथा न स्यात्सविशंका तथा कुरु ॥ 8 ॥

तस्याश्शंकामयं दुःखं मुहूर्तमपि नोत्सहे ।
मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ 9 ॥

न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन ।
मातृणां वा पितुर्वाऽहं कृतमल्पं च विप्रियम् ॥ 10 ॥

सत्यस्सत्याभिसंधश्च नित्यं सत्यपराक्रमः ।
परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ 11 ॥

तस्याऽपि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते ।
सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ 12 ॥

अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण ।
अन्वगेवाहमिच्छामि वनं गंतुमितःपुनः ॥ 13 ॥

मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा ।
सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ 14 ॥

मयि चीराजिनधरे जटामंडलधारिणि ।
गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ 15 ॥

बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् ।
तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम् ॥ 16 ॥

कृतांतस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।
राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ 17 ॥

कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने ।
यदि भावो न दैवोऽयं कृतांतविहितो भवेत् ॥ 18 ॥

जानासि हि यथा सौम्य न मातृषु ममांतरम् ।
भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ॥ 19 ॥

सोऽभिषेकनिवृत्त्यर्थैप्रवासार्थैश्च दुर्वचैः ।
उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये ॥ 20 ॥

कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ।
ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ॥ 21 ॥

यदचिंत्यंतु तद्दैवं भूतेष्वपि न विहन्यते ।
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ 22 ॥

कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ।
यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते ॥ 23 ॥

सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किंचित्तथाभूतं ननु दैवस्य कर्म तत् ॥ 24 ॥

ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
उत्सृज्य नियमांस्तीव्रान्भ्रश्यंते काममन्युभिः ॥ 25 ॥

असंकल्पितमेवेह यदकस्मात्प्रवर्तते ।
निवर्त्यारंभमारब्धं ननु दैवस्य कर्म तत् ॥ 26 ॥

एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।
व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ 27 ॥

तस्मादपरितापस्संस्त्वमप्यनुविधाय माम् ।
प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ 28 ॥

एभिरेव घटै स्सर्वैरभिषेचनसंभृतैः ।
मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ 29 ॥

अथवा किं ममैतेन राजद्रव्यमयेन तु ।
उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ 30 ॥

मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये ।
राज्यं वा वनवासो वा वनवासो महोदयः ॥ 31 ॥

न लक्ष्मणास्मिन्खलु कर्मविघ्ने माता यवीयस्यतिशंकनीया ।
दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वाविंशस्सर्गः ॥




Browse Related Categories: