View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.36 बालकांड - षट्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षट्त्रिंशस्सर्गः ।

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
प्रतिनंद्य कथां वीरावूचतुर्मुनिपुंगवम् ॥ 1 ॥

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुश्शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ॥ 2 ॥

विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् ।
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ॥ 3 ॥

कथं गंगा त्रिपथगा विश्रुता सरिदुत्तमा ।
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैस्समन्विता ॥ 4 ॥

तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ॥ 5 ॥

पुरा राम कृतोद्वाहो नीलकंठो महातपाः ।
दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ 6 ॥

शितिकंठस्य देवस्य दिव्यं वर्षशतं गतम् ।
न चापि तनयो राम तस्यामासीत् परंतप ॥ 7 ॥

ततो देवास्समुद्विग्नाः पितामहपुरोगमाः ।
यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते ॥ 8 ॥

अभिगम्य सुरास्सर्वे प्रणिपत्येदमब्रुवन् ।
देव देव महादेव लोकस्यास्य हिते रत ॥ 9 ॥

सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ।
न लोका धारयिष्यंति तव तेजस्सुरोत्तम ॥ 10 ॥

ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ।
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ॥ 11 ॥

देवतानां वचश्श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत्सर्वान्पुनश्चैवमुवाच ह ॥ 12 ॥

धारयिष्याम्यहं तेजस्तेजस्येव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ 13 ॥

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवंतु सुरसत्तमाः ॥ 14 ॥

एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति ॥ 15 ॥

एवमुक्तस्सुरपतिः प्रमुमोच महीतले ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ 16 ॥

ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् ।
प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ 17 ॥

तदग्निना पुनर्व्याप्तं संजातश्श्वेतपर्वतः ।
दिव्यं शरवणं चैव पावकादित्यसन्निभम् ॥ 18 ॥

यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः ।
अथोमां च शिवं चैव देवास्सर्षिगणास्तदा ।
पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः ॥ 19 ॥

अथ शैलसुता राम त्रिदशानिदमब्रवीत् ।
समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ 20 ॥

यस्मान्निवारिता चैव संगतिः पुत्रकाम्यया ।
अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ॥ 21 ॥

अद्यप्रभृति युष्माकमप्रजास्संतु पत्नयः ॥ 22 ॥

एवमुक्त्वासुरान् सर्वान् शशाप पृथिवीमपि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ 23 ॥

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ 24 ॥

तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान्सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥ 25 ॥

स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरौ ।
हिमवत्प्रभवे शृंगे सह देव्या महेश्वरः ॥ 26 ॥

एष ते विस्तरो राम शैलपुत्र्या निवेदितः ।
गंगायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षट्त्रिंशस्सर्गः ॥




Browse Related Categories: