View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.10 अयोध्याकांड - दशम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ दशमस्सर्गः ।

विदर्शिता यदा देवी कुब्जया पापया भृशम् ।
तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥ 1 ॥

निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी ।
मंथरायै शनैस्सर्वमाचचक्षे विचक्षणा ॥ 2 ॥

सा दीना निश्चयं कृत्वा मंथरावाक्यमोहिता ।
नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ॥ 3 ॥

मुहूर्तं चिंतयामास मार्गमात्मसुखावहम् ।
सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥ 4 ॥

बभूव परमप्रीता सिध्दिं प्राप्येव मंथरा ।
अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् ॥ 5 ॥

संविवेशाबला भूमौ निवेश्य भृकुटीं मुखे ।
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ 6 ॥

अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।
तया तान्यपविद्धानि माल्यान्याभरणानि च ॥ 7 ॥

अशोभयंत वसुधां नक्षत्राणि यथा नभः ।
क्रोधागारे निपतिता सा बभौ मलिनांबरा ॥ 8 ॥

एकवेणीं दृढं बद्वा गतसत्त्वेव किन्नरी ।
आज्ञाप्य च महाराजो राघवस्याभिषेचनम् ॥ 9 ॥

उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ।
अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥ 10 ॥

प्रियार्हां प्रियमाख्यातुं विवेशांतःपुरं वशी ।
स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥ 11 ॥

पांडुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ।
शुकबर्हिणसंघुष्टं क्रौंचहंसरुतायुतम् ॥ 12 ॥

वादित्ररवसंघुष्टं कुब्जा वामनिकायुतम् ।
लतागृहैश्चित्रगृहैश्चंपकाशोकशोभितैः ॥ 13 ॥

दांतराजतसौवर्णवेदिकाभि स्समायुतम् ।
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥ 14 ॥

दांतरजतसौवर्णैस्संवृतं परमासनैः ।
विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ 15 ॥

उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ।
तत्प्रविश्य महाराजस्स्वमंतः पुरमृद्धिमत् ॥ 16 ॥

न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।
कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥ 17 ॥

अपश्यंदयितां भार्यां पप्रच्छ विषसाद च ।
न हि तस्य पुरा देवी तां वेलामत्यवर्तत ॥ 18 ॥

न च राजा गृहं शून्यं प्रविवेश कदाचन ।
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ 19 ॥

यथा पूर्वमविज्ञाय स्वार्थलिप्सुमपंडिताम् ।
प्रतीहारी त्वथोवाच संत्रस्ता सुकृतांजलिः ॥ 20 ॥

देव देवी भृशं कृद्धा क्रोधागारमभिदृता ।
प्रतीहार्या वचश्शृत्वा राजा परमदुर्मनाः ॥ 21 ॥

विषसाद पुनर्भूयो लुलितव्याकुलेंद्रियः ।
तत्र तां पतितां भूमौ शयानामतथोचिताम् ॥ 22 ॥

प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ।
स वृद्धस्तरुणीं भार्यां प्राणेभ्योपि गरीयसीम् ॥ 23 ॥

अपापः पापसंकल्पां ददर्श धरणीतले ।
लतामिव विनिष्कृत्तां पतितां देवतामिव ॥ 24 ॥

किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।
मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥ 25 ॥

करेणुमिव दिग्धेन विद्धां मृगयुना वने ।
महागज इवारण्ये स्नेहात्परिममर्श ताम् ॥ 26 ॥

परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।
कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ 27 ॥

न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।
देवि केनाभिशप्ताऽसि केन वाऽसि विमानिता ॥ 28 ॥

यदिदं मम दुःखाय शेषे कल्याणि पांसुषु ।
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ॥ 29 ॥

भूतोपहतचित्तेव मम चित्तप्रमाथिनी ।
संति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ 30 ॥

सुखितां त्वां करिष्यंति व्याधिमाचक्ष्व भामिनी ।
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ॥ 31 ॥

कः प्रियं लभतामद्य को वा सुमहदप्रियम् ।
मा रोदीर्मा च कार्षीस्त्वं देवि संपरिशोषणम् ॥ 32 ॥

अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।
दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाऽप्यकिंचनः ॥ 33 ॥

अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
न ते किंचिदभिप्रायं व्याहंतुमहमुत्सहे ॥ 34 ॥

आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।
बलमात्मनि जानंती न मां शंकितुमर्हसि ॥ 35 ॥

करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।
यावदावर्तते चक्रं तावती मे वसुंधरा ॥ 36 ॥

प्राचीनास्सिंधुसौवीरा स्सौराष्ट्रा दक्षिणापथाः ।
वंगांगमगधाः मत्स्याः समृद्धा काशिकोसलाः ॥ 37 ॥

तत्र जातं बहु द्रव्यं धनधान्यमजाविकम् ।
ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ 38 ॥

किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने ।
तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥ 39 ॥

तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ।
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे दशमस्सर्गः ॥




Browse Related Categories: