View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.20 सुंदरकांड - विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ विंशस्सर्गः ।

स तां परिवृतां दीनां निरानंदां तपस्विनीम् ।
साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ 1 ॥

मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ।
अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ 2 ॥

कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ।
सर्वांगगुणसंपन्ने सर्वलोकमनोहरे ॥ 3 ॥

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः ।
व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ 4 ॥

स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः ।
गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ 5 ॥

एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि ।
कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ 6 ॥

देवि नेह भयं कार्यं मयि विश्वसि हि प्रिये ।
प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ 7 ॥

एकवेणी धराशय्या ध्यानं मलिनमंबरम् ।
अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ 8 ॥

विचित्राणि च माल्यानि चंदनान्यगरूणि च ।
विविधानि च वासांसि दिव्यान्याभरणानि च ॥ 9 ॥

महार्हाणि च पानानि शयनान्यासनानि च ।
गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ 10 ॥

स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ।
मां प्राप्य हि कथं नु स्वास्त्वमनर्हा सुविग्रहे ॥ 11 ॥

इदं ते चारु संजातं यौवनं व्यतिवर्तते ।
यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ 12 ॥

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् ।
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ 13 ॥

त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ।
कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ 14 ॥

यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने ।
तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ॥ 15 ॥

भव मैथिलि भार्या मे मोहमेनं विसर्जय ।
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ॥ 16 ॥

सर्वासामेव भद्रं ते ममाग्रमहिषी भव ।
लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि वै ॥ 17 ॥

तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ।
विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥ 18 ॥

जनकाय प्रदास्यामि तव हेतोर्विलासिनि ।
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ।
पश्य मे सुमहद्वीर्यमप्रतिद्वंद्वमाहवे ॥ 19 ॥

असकृत्संयुगे भग्ना मया विमृदितध्वजाः ॥ 20 ॥

अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ।
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ 21 ॥

सप्रभाण्यवसज्यंतां तवांगे भूषणानि च ।
साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥ 22 ॥

प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ।
भुंक्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ॥ 23 ॥

यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ।
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ॥ 24 ॥

मत्प्रसादाल्ललंत्याश्च ललंतां बांधवास्तव ।
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ 25 ॥

किं करिष्यसि रामेण सुभगे चीरवाससा ।
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥ 26 ॥

व्रती स्थंडिलशायी च शंके जीवति वा न वा ।
न हि वैदेहि रामस्त्वां द्रष्टुं वा प्युपलप्स्यते ।
पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ 27 ॥

न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः ॥ 28 ॥

हिरण्यकशिपुः कीर्तिमिंद्रहस्तगतामिव ।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥ 29 ॥

मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ।
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् ॥ 30 ॥

त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ।
अंतःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ॥ 31 ॥

यावंत्यो मम सर्वासामैश्वर्यं कुरु जानकि ।
मम ह्यसितकेशांते त्रैलोक्यप्रवराः स्त्रियः ॥ 32 ॥

तास्त्वां परिचरिष्यंति श्रियमप्सरसो यथा ।
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ॥ 33 ॥

तानि लोकांश्च सुश्रोणि मां च भुंक्ष्व यथासुखम् ।
न रामस्तपसा देवि न बलेन न विक्रमैः ॥ 34 ॥

न धनेन मया तुल्यस्तेजसा यशसापि वा ।
पिब विहर रमस्व भुंक्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च ।
मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललंतु बांधवास्ते ॥ 35 ॥

कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि ।
कनकविमलहारभूषितांगी विहर मया सह भीरु काननानि ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे विंशस्सर्गः ॥




Browse Related Categories: