View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.46 अयोध्याकांड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षट्चत्वारिंशस्सर्गः ।

ततस्तु तमसातीरं रम्यमाश्रित्य राघवः ।
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ 1 ॥

इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् ।
वनवासस्य भद्रं ते स नोत्कंठितुमर्हसि ॥ 2 ॥

पश्य शून्यान्यरण्यानि रुदंतीव समंततः ।
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ 3 ॥

अद्यायोध्या तु नगरी राजधानी पितुर्मम ।
सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः ॥ 4 ॥

अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः ।
त्वां च मां च नरव्याघ्र शत्रुघ्न भरतौ तथा ॥ 5 ॥

पितरं चानुशोचामि मातरं च यशस्विनीम् ।
अपि वांधौ भवेतां तु रुदंतौ तावभीक्ष्णशः ॥ 6 ॥

भरतः खलु धर्मात्मा पितरं मातरं च मे ।
धर्मार्थकामसहितैर्वाक्यैर्वाश्वासयिष्यति ॥ 7 ॥

भरतस्यानृशंसत्वं विचिंत्याहं पुनः पुनः ।
नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥ 8 ॥

त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् ।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ 9 ॥

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् ।
एतध्दि रोचते मह्यं वन्येऽपि विविधे सति ॥ 10 ॥

एवमुक्त्वा तु सौमित्रिं सुमंत्रमपि राघवः ।
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ 11 ॥

सोऽश्वान्सुमंत्रः संयम्य सूर्येऽस्तं समुपागते ।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनंतरः ॥ 12 ॥

उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम् ।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥ 13 ॥

तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् ।
रामः सौमित्रिणा सार्धं सभार्यस्संविवेश ह ॥ 14 ॥

सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः ।
कथयामास सूताय रामस्य विविधान् गुणान् ॥ 15 ॥

जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः ।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ 16 ॥

गोकुलाकुलतीरायास्तमसाया विदूरतः ।
अवसत्तत्र तां रात्रिं रामः प्रकृतिभिस्सह ॥ 17 ॥

उत्थाय स महातेजाः प्रकृतीस्ता निशाम्य च ।
अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ 18 ॥

अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि ।
वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण सांप्रतम् ॥ 19 ॥

यथैते नियमं पौराः कुर्वंत्यस्मन्निवर्तने ।
अपि प्राणान्न्यसिष्यंति न तु त्यक्ष्यंति निश्चयम् ॥ 20 ॥

यावदेव तु संसुप्ता स्तावदेव वयं लघु ।
रथमारुह्य गच्छामः पंथानमकुतोभयम् ॥ 21 ॥

अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः ।
स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः ॥ 22 ॥

पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः ।
न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ 23 ॥

अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिवस्थितम् ।
रोचते मे तथा प्राज्ञ क्षिप्र मारुह्यतामिति ॥ 24 ॥

अथ रामोऽब्रवीच्छ्रीमान्सुमंत्रं युज्यतां रथः ।
गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ॥ 25 ॥

सूतस्तत स्सत्त्वरितः स्यंदनं तैर्हयोत्तमैः ।
योजयित्व्राऽथ रामाय प्रांजलिः प्रत्यवेदयत् ॥ 26 ॥

अयं युक्तो महाबाहो रथस्ते रथिनां वर ।
त्वमारोहस्व भद्रं ते ससीत स्सहलक्ष्मणः ॥ 27 ॥

तं स्यंदनमधिष्ठाय राघव स्सपरिच्छदः ।
शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ॥ 28 ॥

स संतीर्य महाबाहुः श्रीमान् शिवमकंटकम् ।
प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ 29 ॥

मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः ।
उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे ॥ 30 ॥

मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः ।
यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ 31 ॥

रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।
प्रत्यागम्य च रामस्य स्यंदनं प्रत्यवेदयत् ॥ 32 ॥

तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ ।
प्रचोदयामास ततस्तुरंगमान् स सारथिर्येन पथा तपोवनम् ॥ 33 ॥

तत स्समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ ।
उदङ्मुखं तं तु रथं चकार स प्रयाणमांगल्य निमित्तदर्शनात् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: