View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.116 अयोध्याकांड - षोडशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षोडशाधिकशततमस्सर्गः ।

प्रतिप्रयाते भरते वसन्रामस्तपोवने ।
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ 1 ॥

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ 2 ॥

नयनैर्ब्रुकुटीभिश्च रामं निर्दिश्य शंकिताः ।
अन्योन्यमुपजल्पंत श्शनैश्चक्रुर्मिथः कथाः ॥ 3 ॥

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शंकितः ।
कृतांजलिरुवाचेदमृषिं कुलपतिं ततः ॥ 4 ॥

न कच्चिद्भगवन्किंचित्पूर्ववृत्तमिदं मयि ।
दृश्यते विकृतं येन विक्रियंते तपस्विनः ॥ 5 ॥

प्रमादाच्चरितं कच्चित्किंचिन्नावरजस्य मे ।
लक्ष्मणस्यर्षिभिदृष्टं नानुरूपमिवात्मनः ॥ 6 ॥

कच्चिच्छुश्रूषमाणा व श्शुश्रूषणपरा मयि ।
प्रमदाऽभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ 7 ॥

अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ।
वेपमान इवोवाच रामं भूतदयापरम् ॥ 8 ॥

कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।
चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ 9 ॥

त्वन्निमित्तमिदं तावत्तापसान्प्रतिवर्तते ।
रक्षोभ्यस्तेन संविग्नाः कथयंति मिथः कथाः ॥ 10 ॥

रावणावरजः कश्चित् खरो नामेह राक्षसः ।
उत्पाट्य तापसान्सर्वांजनस्थाननिकेतनान् ॥ 11 ॥

धृष्टश्च जितकाशी च नृशंसः पुरुषादकः ।
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ 12 ॥

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।
तदाप्रभृति रक्षांसि विप्रकुर्वंति तापसान् ॥ 13 ॥

दर्शयंति हि बीभत्सैः क्रूरैर्भीषणकैरपि ।
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥ 14 ॥

अप्रशस्तैशुचिभिस्संप्रयोज्य च तापसान् ।
प्रतिध्नंत्यपरान्क्षिप्रमनार्याः पुरतः स्थिताः ॥ 15 ॥

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।
रमंते तापसां स्तत्र नाशयंतोऽल्पचेतसः ॥ 16 ॥

अपक्षिपंति स्रुग्भांडानग्नीस्निंचंति वारिणा ।
कलशांश्च प्रमध्नंति हवने समुपस्थिते ॥ 17 ॥

तैर्दुरात्मभिरामृष्टानाश्रमान्प्रजिहासवः ।
गमनायान्यदेशस्य चोदयंत्यृषयोऽद्य माम् ॥ 18 ॥

तत्पुरा राम शारीरामुपहिंसां तपस्विषु ।
दर्शयंति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ 19 ॥

बहुमूलफलं चित्रमविदूरादितो वनम् ।
पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥ 20 ॥

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते ।
सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥ 21 ॥

सकलत्रस्य संदेहो नित्यं यत्तस्य राघव ।
समर्थस्यापि हि सतो वासो दुःखमिहाद्य ते ॥ 22 ॥

इत्युक्तवंतं स्तंराम राजपुत्रस्तपस्विनम् ।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम् ॥ 23 ॥

अभिनंद्य समापृच्छ्य समाधाय च राघवम् ।
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिस्सह ॥ 24 ॥

रामः संसाद्य ऋषिगणमनुगमनाद्देशात्तस्मात्कुलपतिमभिवाद्य ऋषिम् ।
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसंपेदे ॥ 25 ॥

आश्रममृषिविरहितं प्रभुः क्षणमपिन जहौ स राघवः ।
राघवं हि सततमनुगता स्तापसाश्चार्षचरित धृतगुणाः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षोडशाधिकशततमस्सर्गः ॥




Browse Related Categories: